________________
[गाथा ३२-३६]
प्रश्रव्याकरणाख्यं एतदेवाह - सेसा हवंति अहरा, वग्गा चत्तारि क ट प सा जाण । एक्ककंमि चउक्के, पुणो वि इणमो कमो णेओ ॥ ३२॥
अष्टवर्गक्रम एव, चत्वारो वर्गा अधराः। के ते? 'क ट प सा(शा)' शेषग्रहणाद् भण्यते ॥ ३२॥
गाथापश्चार्द्धस्यान्य[५० २३, पा० २ ]गाथया विभापा क्रियते - एककंनि(मि) चउक्के, पुणो पि(वि) इणमो कमो उ विण्णेओ।
दो उत्तरा उ तेसिं, दो चिअ अहराधरा विदिए ॥ ३३ ॥
निरूपितं उत्तरचतुष्कं अधरचतुष्कं चेति । तत्र चतुष्कद्वये भूय[:] प्रधानाप्रधानदर्शनार्थ क्रमोऽयं विज्ञातव्यः । उत्तरचतुष्के द्वौ यथा-अच वर्गों प्रागुत्पन्नत्वाद् । द्वौ च इति । द्वितीयचतुष्कमाह । तत्रान्त्यौ द्वौ वर्गों 'पश' अधराधराविति मन्तव्यौ । अथवा द्वितीयवर्गों द्वौ द्वा[व]धराविति । द्वौ अधरौ 'कट' संज्ञौ। द्वौ अधराधरौ ‘प स (श)' संज्ञौ। एवं वा नेयम् ॥३३॥
अनु(मु)मेवार्थं विशेषयन्नाह - दो चेव उ [प० २४,पा० १]त्तरोत्तर, तेसिं दो उत्तराधर(रा) पढमे । अधरुत्तरा य दोणि य दोण्णि य अहराहरा विदिए ॥ ३४॥
तत्र उत्तरचतुष्के पूर्वोत्पन्नत्वात् प्रधानत्वाच्च 'अच' एतौ उत्तरोत्तरौ । आभ्यामनन्तरपछि[तत्वात् 'त य एतौ उत्तराधरौ एव प्रथमचतुष्के । द्वितीये तु 'कट' इत्येतौ अधरोत्तरौ। अधरचतुष्कत्वादधरौ प्रागुत्पन्नत्वादुत्तरौ। द्वौ अधराधरौ । 'पस[श]' संज्ञौ अधरचतुष्क(त्वा)दधरौ। 'कट' वर्गयोः पश्चादुत्पन्नत्वाद् अधराधराविति । एवं अष्टवर्गक्रमेण वर्गोत्तरमुक्तम् ।। ३४ ॥
पंचवर्गीयेत्(यमेतत् ?-)। पढम-तइया उ वग्गा, पण्हस्स य उत्तरक्खरा होति । बितिय-चउत्था अहरा, अहराहर हो प० २४, पा० २ति अणुणासी ॥३५॥
प्रथमवर्ग[:] - ‘क च ट त प य स (श)' इति । तृतीयो- 'गज ड द ब ल स । एतौ वर्गों उत्तरोत्तरी, उत्तरावित्यर्थः । द्वितीय[:]- 'ख छ ठ थ फर ष'; चतुर्थः- 'घझ ढ धभवह'; इत्येतौ वर्गौ अधरसंझौ । कमण न म' इत्येषो(ष) वर्गः अधराधरसंज्ञः । एवं वर्गोत्तरम् ॥३५॥
साम्प्रतं गणनोत्तरम् , तदर्थं [गाथा]
गणणाए छा [प० २५, पा० १] इल्ला, सरुत्तरा छस्सराधरा इयरे । विसमा वि उत्तरा वंजणेसु अहरा समा भणिया ॥ ३६ ॥ गणना-अनुक्रमो भण्यते । तत्र खराणामाद्याः षड् उत्तराः, पूर्वोत्पन्नत्वात् । 'अ आ इ ई उ पश्चादुत्पन्नत्वाद् अधरा 'ए ऐ ओ औ अंअ'यद्वाऽन्यथा गणनोत्तर(र)स्वराणाम् 'अ इ उ ए 3. ओ अं' द्वयोर्द्वयोः प्रागुत्प[प० २५, पा० २]न्नत्वादेते उत्तराः । पश्चादुत्पन्नत्वाद् 'आई ऊऐ औ अः' इत्येते अधराः । यत इदमाह -
"विसमा वि उत्तरा बंजणेस अहरा समा भणिया ।" नि. शा.२
(25)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org