________________
३३०
अनुयोगद्वार-चूलिकासूत्रं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थिति- . कद्रव्याणां सर्वत्र भावादिति।
अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूामिवैकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथ मिति?. उच्यते, यत्कालतो द्विसमयस्थितिकं तत् क्षेत्रतो द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, तच्च लोकासंख्येयभाग एव स्याद्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते, न परतः, आदेशान्तरेण वा 'महाखुधवञ्जमन्नदव्वेसु आइल्लचउपुच्छासु होञ्ज'त्ति, अस्य हृदयं-मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य संख्येयभागेऽवगाहते किञ्चित्त्वसंख्येये अन्यत्तु संख्येयेषु तद्भागेष्ववगाहते अपरं त्वसंख्येयेप्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासु चतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे कचिदेव दृश्यते । नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति।
गतं क्षेत्रद्वारं, स्पर्शनाद्वारमप्येवमेव भावनीयं । कालद्वारे
मू.(१३५ वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होंति ?, एगं दव्वं पडुच्च जहन्त्रेणं तिनि समया उकोसेणं असंखेज्ज कालं, नानादब्वाइं पडुच्च सब्बद्धा, नेगमववहाराणं अनानुपुव्वीदव्वाइं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च अजहनमनुक्कोसेणं एक्कं समयं नानादव्वाई पडुच्च सव्वद्धा, अवतव्वगदव्वाणं पुच्छा, एगंदव्वं पडुच्च अजहन्नमणकोसेणं (एक)दो समया नानादब्वाई पडुच्च सव्वद्धा।
वृ. 'एगं दव्वं पडुच्च जहन्नेणं तिन्नि समय'त्ति, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भावः । 'उक्कोसेणं असंखेनं कालं'ति असंख्येयकालात् परत एकेन परिणामेन द्रव्यास्थानस्यैवाभावादिति हृदयम्। नानाद्रव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेश लोकस्य सर्वदा तैरशून्यत्वादिति। अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'अजहन्नमनुक्कोसेणं ति जघन्योत्कृष्टचिन्तामृत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतो(न्यो)त्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्वादिति॥ अन्तरद्वारे_मू. ( १३५ वर्तते) नेगमववहाराणं आनुपुच्चीदवाणमंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं दो समया नानादव्वाइं पडुच्च नत्थि अंतरं। नेगमववहाराणं अनानुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ?, एगंदव्यं पडुच्च जहन्नेनं दो समया उक्कोसेणं असंखेज्ज कालं, नानादव्वाई, पडुच्च नत्थि अंतरं । नेगमववहाराणं अवत्तव्यगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहन्नेनं एग समयं उक्कोसेणं असंखेज्जं कालं, नानादब्वाइं पडुच्च नत्थि अंतरं। भागभावअप्पाबहुंचेव जहा खेत्तानुपुव्वीए तहा भाणिअव्वाई,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org