________________
मूलं - १३५
जाव से तं अनुगमे । सेतं नेगमववहाराणं अनोवनिहिआ कालानुपुव्वी ।
वृ. ‘एगं दव्वं पडुच्च जहत्रेणं एक्कं समयं 'ति अत्र भावना - इह त्र्यादिसमयस्थितिकं विवक्षित किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतथा समयोऽन्तरे लभ्यते, 'उक्कोसेणं दो समय'त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात्परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत, ततोऽन्तरमेव न स्यादिति
भावः ।
३३१
नानाद्रव्याणां तं नास्त्यन्तरं, सर्वदा लोकस्य तदशून्यत्वादिति । अनानुपूर्वीचिन्तायां एवं दव्वं पडुच्च जहनेणं दो समय 'त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा सभयद्वयं जघन्योऽन्तरकालः, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठत् तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वाद्, अथसमयद्रयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः ।
‘उक्कोसेणं असंखेञ्जं कालं 'त्ति, तदेव यदा परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतो ऽसंख्येयोऽन्तरकालः प्राप्यते । आह- ननु यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपि कालोऽन्तरे लभ्यते किमित्यसंख्येय एवोक्तः ?, सत्यं, किन्तं कालानुपूर्वी प्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यं, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धोऽन्तरकालबाहुल्यं क्रियते तदा तद् द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरे चिन्त्यते, स चासंख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवत: सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति । नानाद्रव्याणं तु नास्त्यन्तरं प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति । अवक्तव्य-कद्रव्यचिन्तायां 'जहणणेणं एवं समयं 'ति द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो
जघन्यान्तरकाल: ।
'उक्कोसेणं असंखेञ्जं कालं 'ति, तदेव यदा परिणामान्तरेणासंख्येयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसंख्यात उत्कृष्टोऽन्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानुपूर्वीवत् दृष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति । उक्तमन्तरद्वारं, भागद्वारे तु यथा द्रव्यक्षेत्रानुपूर्व्यास्तथैवानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्ख्येयभाग एव वर्तन्त इति, भावना त्वित्थं कर्तव्या - इहानानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्व्यं तु त्रिसमयचतुःसमयपञ्चसमयस्थित्वादीन्येकोत्तरवृद्धयाऽसङ्ख्येयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्यगुणत्वम्, इतरयोस्तु तदसंख्येय भागवर्तित्वमिति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org