SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मूलं - १३५ दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति । क्षेत्रद्वारे मू. ( १३५ वर्तते ) नेगमववहाराणं अनु०दव्वाई लोगस्स किं संखेज्जइभागे होज्जा ? असंखिज्जइभागे होज्जा ? संखेज्जेसु भागेसु वा होज्जा ? असंखेज्जेसु भागोसु वा होज्जा ? सव्वलोए वा होज्जा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जसु वा भागेसु होज्जा असंखेज्जसु वा भागेसु होज्जा देसूने वा लोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अनानुपुव्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणिवि जहा खेत्तानुपुवीए। फुसणा कालानुपुव्वीएवि तहा चेव भाणि अव्वा । वृ. 'एगं दव्वं पडुच्च लोगस्सासंखेज्जइभागे होञ्जा, जाव देसूणे वा लोगे होञ्ज' त्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवत: संख्येयादिभागवर्तित्वं भावनीयं, यदा त्र्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूने वा लोगे होञ्ज' त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेद्, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, सच तद्व्यापितया एकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम् । अत्राह - नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासयमगणनेन तस्याप्यष्टसमयस्थितिकत्वाद्, एवं च सति तस्याप्यानुपूर्वीत्यात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदेस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं दण्डकपाटाद्यवस्थाः, ततस्तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धव्यं तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वी त्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्तरेण । अथवा यथा क्षेत्रानुपूर्व्यं तथाऽत्रापि सर्वलोकव्यापिनोऽप्यत्तिमहास्कन्धस्य विवक्षामात्रामाश्रित्य एकस्मिन्नभः प्रदेशेऽप्राधान्यद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानापूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्य श्रयणादिति भावः, एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । 'नानादव्वाइं पडुच्च नियमा सव्वलोए होञ्ज'त्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथमिदम् १, उच्यते, यत्कालत एक समयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते तच्च लोकासंख्येयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु होञ्ज' त्ति, अस्य भावना-इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परंभिन्नाः, आकारादिभेदात्, द्वित्रिचतुः प्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात् पृथगनानुपूर्वीदव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण संख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीकाचूयस्त्वेवं Jain Education International ३२९ For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy