________________
३२८
अनुयोगद्वार-चूलिकासूत्रं मू.(१३३) से किं तं अनुगमे?, २ नवविहे पन्नत्ते, तंजहामू.(१३४) संतपयपरूवणया जाव अप्पाबह चेव।।
मू.(१३५) नेगमववहाराणं आनुपुव्वीदव्वाई किं अत्थि नत्थि?, नियमा तिन्निवि अत्थि। नेगमववहाराणं आनु०दव्वाइं किं संखेज्जाइं असंखेज्जाइ अनंताई?, तिन्निवि नो संखिज्जाइ असंखेज्जाइं नो अनंताई।
वृ.अत्राक्षरगमनिका यथा द्रव्याणुपूर्त्यां तथा कर्तव्या यावत् 'तिसमयट्टिईए आनुपुव्वी' - त्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्वयणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिव्यविशेष आनुपूर्वीति, आह-ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्त्रं?, नैतदेवम्, अभिप्रायापरिज्ञानाद्, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायिणोः कथञ्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्तं इति भावः, एवं चतुःसमयस्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य परमाणवादिद्रव्यसङ्गातस्य स तथा, संख्येयाः समया: स्थितिर्यस्य परमाण्वादेः स तथा, असंख्येया: समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, स्वाभाव्याद्, इत्युक्तमेवेति, शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमस्थितिक परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तं तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्वं भावनीयं, यावद् द्रव्यप्रमाणद्वारे 'नो संखेञ्जाई असंखेञ्जाइं नो अनंताई' इति, अस्य भावना
इह त्र्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकस्वरूपत्वात् कालस्य चेह प्राधान्येन द्रव्याबहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावनेयं यावदसंख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसंख्येयसमयस्थितकैर्द्रव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसंख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एवमनानुपूर्व्यक्तव्यकट्रव्याण्यपि प्रत्येकमसंख्येयानि वाच्यानि, अत्राह-नन्वेकसमयस्थितिकद्रव्यास्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्ववक्तकत्वमुक्तं तत्र यद्यप्येकद्विसमयस्थितिनि परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानी लभ्यन्ते तथाऽप्यनन्तरोक्तत्वादुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितेरेकैकरूपत्वाद्, द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेक मेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकमसंख्येयत्वम्, अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनांच द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासंख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसंख्येयत्वं न विहन्यते इति, अनया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org