SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३२४ अनुयोगद्वार-चूलिकासूत्रं क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यंड्-मध्यमो लोकस्तिर्यग्लोकः, अथवा स्वकीयोाधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः, उक्तं च "मज्झनुभावं खेत्तं जं तं तिरयंति वयणपञ्जवओ। ___ भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति ।।" 'वयणपञ्जवओ'त्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरिमध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्यां तु पदत्रयस्य षड् भङ्गा भवन्ति, तेच पूर्वं दर्शिता एव, शेषभावना त्विहप्राग्वदेवेति। अत्र च कचिद्वाचनान्तरे एकप्रदेशावगाढादीनां असंख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूळधिकारादिविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीना च भेदपरिज्ञाने शिष्यव्युत्पतिं पश्यन्नाह मू. (१२०) अहोलोअखेत्तानुपुव्वी तिविहा पत्रत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुब्बी। से किं तं पुन्वानुपुच्ची?, २ रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा, से तं पुव्वानुपुची। से कि तं पच्छानुपुची?, २ तमतमा जाव रयणप्पभा, से तं पच्छानुपुव्वी । से किं तं अनानुपुच्ची?, २ एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेटीए अन्नमन्नब्भासो दूरूवूणो, सेतं अनानुपुब्बी। __तिरिअलोअखेत्तानुपुव्वी तिविहा पन्नता, तंजहा-पुत्वानुपुब्बी पच्छानुपुब्बी अनानुपुब्बी। से किं तं पुव्वानुपुवी? वृ.अहोलोयखेत्तानुपुव्वी तिविहे'त्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी, औपनिधिको प्रक्रमाल्लभ्यते, सा त्रिविध, प्रज्ञप्ता, तद्यथेत्यादिशेपंपूर्ववद्भावनीयं यावदनप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नम्भावनरकवर्ज प्रायो रत्नानां प्रभाज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणाम्उपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा-परुषपांशूत्कररूपायाः प्रभा-स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्यप्रभा यस्यां सा पङ्कप्रभा, प्रङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्यप्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमःप्रभा कृष्णद्रव्योलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां सा महातमःप्रभा अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमस्तमस्तमस्तद्रूपद्रव्ययोगात्, तमस्तमा इति, अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वं, व्यत्ययेन पशश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्त्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्या दृष्टव्यानीति, शेषभावना पूर्ववदिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy