________________
मूलं-१२०
३२५
तिर्यग्लोके क्षेत्रानुपूर्त्यां 'जंवूद्दीवे' इत्यादिगाथा - मू. (१२१) जंबूद्दीवे लवणे धायइ कालोअ पुक्खरे वरुणे।
खीर घय खोअनंदी अरुणवरे कुंडले रुअगे। व.द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतृत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा:जन्त्वावासभूतक्षेत्रविशेषाः सह मुद्रया--मर्यादया वर्तन्त इति समुद्राः-प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकसंख्येया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावञ्जम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरितः समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद्, एवं पुरस्तादपि यथासम्भवं दृष्टव्यं, 'धायइ कालोय'त्ति, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकोवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसास्वादः कालोदः समुद्रः, तं च परिक्षिप्य स्थितः पुष्करैः- पद्मवरैरुपलक्षितो द्वीपः पुष्करवरद्वीपः, तत्परितोऽपिशुद्धोदकरसास्वाद एव पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो दृष्टव्यः 'पुक्खरे'त्ति, एवमुत्तरत्रापि, ततो 'वरुणो'त्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदा: समुद्रः, 'खीर'त्ति क्षीरवरो द्वीपः क्षीररसास्वादः क्षीरोदः समुद्रः, 'घय'त्ति घृतवरो द्वीप: घृतरसास्वादो धृतोदः समुद्रः, 'खोय'त्ति इक्षुवरो द्वीपः इक्षुरसास्वाद एवेक्षुरस: सुमद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः, अपरं च स्वयम्भूरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः तत्र द्वीपनामान्यमूनि, तद्यथा नन्दी-समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवर: अरुणावासः कुण्डलवरः शङ्खवरः रुचकवर इत्येवं पड् द्वीपनामानि चूर्णी लिखितानि दृश्यन्ते सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे'इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अत: चूर्णिलिखितानुसारेण रुचकवस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ।
इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तं नामाभिधानार्थमाहमू. (१२२) जंबुद्दीवाओ खलु निरंतरा संसया असंखइमा,
भुयावर कुसवरा वि य कौंचवराभरणमाईया। वृ."जंबूद्दीवाओ खलु" इति, व्याख्या-एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा' नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भावः, ये तु शेषका भुजगवरादय इतऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसंख्याततमा द्रष्टव्याः, तथाहि-'भुजगवरे'ति पूर्वोक्ताद्चकवराद्वीपादसंख्येयान्द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समस्ति, 'कुसवर'त्ति ततोऽप्यीसंख्येयाँस्तान् गत्वा कुशवरो नाम द्वीप: समस्ति, अपि चेति समुच्चये, कोंचवरे'ति ततोऽप्यसंख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति, मू. (१२३) आभरणवत्थगंधे उप्पलतिलए अ पुढविनिहिरयणे।
वासहरदहनईओ विजया वक्खारकप्पिदा । वृ.'आभरणमाई यत्ति एवमसंख्येयान् द्वीपसमुद्रानुल्लंध्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामन एव भवन्तीत्युक्तमेवेति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org