SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मूलं - ११६ ३२१ एवानेकेषु चतुष्कसंयोगे ध्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसंख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एव चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावीनया, तस्मादसंख्येयप्रदेशात्मके स्वस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसंख्येयकसंयोगपर्यन्ताः संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद्, आधेयभेदे चाधारभेदात् न हि नभः प्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमाद्, घटे तत्स्वरूपवत्, तस्मात्त्र्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम्, अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वाद्, अनानुपूर्व्योऽपि स्तोका एव, लोकप्रदेशसंख्यमात्रत्वाद् । अत्र सुखप्रतिपत्त्यर्थं लोके किल प्रञ्चाकाशप्रदेशाः कल्प्यन्ते, अत्रानानुपूर्व्यस्तावत् पञ्चैव प्रतीताः, अव्यक्तव्यकानि त्वष्टौ द्रिकसंयोगानामिहाष्टानामेव सम्भवाद, आनुपूर्व्यस्तु पोडश संभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगाः कथमिह लभ्यन्ते ? इति चेद्, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुर्भिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते एकस्तु, तन्निरपेक्षैदिग्व्यवस्थितैरेनेति सर्वे पञ्च पञ्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेणद्भासवतोऽसंख्येयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसंख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भावद्वारम्, साम्प्रतं भावद्वारम् । मू. ( ११६ वर्तते ) नेगमववहाराणं अनुपुव्वीदव्वाइं कयरंमि भावे होज्जा ?, नियमा साइपरिणामिए भावे होज्जा, एवं दोन्निवि । वृ. तत्र तद्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सदापिारिणामिकत्वात् त्रयाणामपि सदापिारिणामिकत्वात् त्रयाणामपि सदापिारिणाभिकभाववर्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे मू. ( ११६ वर्तते ) एएसि णं भंते! नेगमववहाराणं आनुपुव्वीदव्वाणं अनानुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्टपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुवा वा तुल्ला वा विसेसाहिआ वा?, गोयमा! सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वद्वयाए अनानुपुवीदव्वाइं दव्वट्टयाए विसेसाहियाइं आनुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाइं परसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अनानुपुव्वीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई आनुपुव्वीदव्वाई पएसट्टयाए असंखेज्जगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए अनानुपुव्वीदव्वाइं दव्वट्टयाए अपएसटुयाए विसेसाहिआई अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई आनुपुव्वीदव्वाइं तं नेगमववहाराणं अनोवनिहिआ खेत्तानुपुव्वी ॥ वृ. इह द्रव्यगणनं द्रव्यार्थता प्रदेशगणनं प्रदेशार्थता उभयगणनं तूभयार्थता, तत्रानुपूर्व्यां 30/21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy