________________
३२०
अनुयोगद्वार-चूलिकासूत्रं 'उक्कोसेणं असंखेज्जं कालं'ति तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्खयेयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, न पुनद्रव्यानुपूर्व्यामिवानन्ततो, यतो द्रव्यानुपूर्व्या विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्ताऽनन्तः कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्खयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्खयेवकालैव, ततश्चासङ्घयेय क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसतयेयकालात्तेष्वेव नभ:प्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ?, यत इहासङ्खयेयक्षेत्रेऽसङ्घयेयकालमेवान्यत्र तेन पर्यटितव्यं, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयं वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम्। __ अन्ये तु व्याचक्षते-यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं तस्य क्षेत्रस्य स्वभावादेवासङ्घयेयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्घयादिधर्मः सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्घयेय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'नानादव्वाई'इत्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्खयेयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमाननुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः, शेषा तु व्याख्याद्वयभावना सर्वाऽपि तथैवेति ।
उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते
मू. (११६ वर्तते) नेगमववहाराणं आनुपुचीदव्वाइं सेसदव्वाणं कइभागे होज्जा?, तित्रिवि जहा दव्वानुपुव्वीए॥
वृ. तत्र यथा द्रव्यानुपूर्त्यां तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसङ्खयेयै गैरधिकानि, शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्त इति। अत्राहननु त्र्यादिप्रदेशावगाढानिद्रव्याण्यानुपूर्व्यएकैकप्रदेशावगाढान्यनानुपूर्दो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूयादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि-असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव अवक्तव्यकानि तु पञ्चदश आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येय प्राप्नुवन्ति, कथमसङ्खयेयगुणानि स्युरिति ?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभ:प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयज्येरैस्तदा स्यादेवं, तच्च नास्ति, यत एकस्मिनपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाधेयद्रव्येणाक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमान्यान्याचतुष्प्रदेशावगाढाद्यादेयेनाध्यासितत्वात्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org