SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २८३ मूलं-५७ कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम्। यद्येवंतहि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं यतोसंख्येयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासंझयेयप्रदेशात्मकतया सर्वत्र तुल्यात्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धं, यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्द्धत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच्च नास्ति, समुदायवृद्धयभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुदगलसमदास्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । ___ अन्ये तु पूर्व सचित्तस्कन्धविचारे जीवतदधिष्ठितशरीखयवसुमदाय: सचित्तस्कन्धोऽत्र तु शरीरात् बुद्धया पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते, अत्रच व्याख्याने प्रेयमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वमाविरोधादित्यलं प्रसङ्गेन। 'सेत'मित्यादि निगमनम्। अथाकृत्स्नस्कन्धनिरूपणार्थमाह मू. (५८) से किं तं अकसिणखंधे?, २ सो चेव दुपएसियाइखंधे जाव अनंतपएसिए खंधे, से तं अकसिणखंधे। वृ. 'स' इत्यादि. अत्रोत्तरम्-'अकसिणखंधे सो चेवे'त्यादि, न कृत्स्नोऽकृत्स्रः स चासो स्कन्धश्चात्त्रस्कन्धो यस्मादन्योऽपि बहत्तर: स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-'सो चेवे'त्यादि स एव 'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नोऽकृत्स्न इत्यर्थः, द्विप्रदेशिकस्य त्रिपदेशिकापेक्षयाऽकृत्स्नोत्वात्, त्रिपदेशिकस्यापि चतुष्प्रदेशिकापेक्षयाऽकृत्स्नत्वाद्, एवं तावद्वाच्यं यावत् नापद्यत इति। पूर्व द्विपदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । 'सेत' मित्यादि निगमनम्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाहमू. (५९) से किं तं अनेगदीवयखंधे?, २ तस्स चेव देसे अवचिएअ तस्स चेव देसे उचिए. सेतं अनेगदविअखंधे से तं जाणयसरीरभवियसरीरवइरित्ते दव्यखंधे, सेतं नोआगमतो दव्वखंधे, से तं दव्यखंधे।। वृ.'से' इत्यादि, अत्रोत्तरम्-'अनेगदवियखंधेतस्स चेवे'त्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमा संबध्यते, ततश्च तस्यैव' यस्य कस्यचित्त स्कन्धस्य यो 'देशो' नखदन्तकेशादिलक्षणः 'अपचितो' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देश:' पृष्टोदरचरणादिलक्षण उपचित्तो' जीवप्रदेशाप्त इत्यर्थः, तयोर्यथोक्तदेश-योर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगदास्य को विशेष इति चेद्, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीतिविशेपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy