SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ - - - - २८४ अनुयोगद्वार-चूलिकासूत्रं पूर्वोक्तमिश्रस्कन्धास्य तर्हि को विशेष इति चेद्, उच्यते, तत्र खङ्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । 'सेत'मित्यादि निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति। अथ भावस्कन्धनिरूपणार्थमाहमू. (६०) से किं तं भावखंधे?, २ दुविहे पन्नत्तं, तंजहा-आगमओ नोआगमओ । व. अत्रोत्तरम्.. भावखंधे दुविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्चच नोआगमतश्च । म.(६१)से किं तं आगमओ भावखंधे?, २ जाणए उवउत्ते, सेतं आगमओ भावखंधे। व. तत्राऽऽगमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद्भावस्कन्धः । म. (६२) से किं तं नोआगमओ भावखंधे?. २ एएसिं चेव सामाइअमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुअखंधे भावखंधेत्ति लन्भइ, सेतं नोआगमओ भावखंधे, से तं भावखंधे। वृ. नोआगमतस्तु एतेपामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, सचैतेपांविशकलितानामपि तथाविधदेवदत्तादीनामिव तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापितायःशलाकानामिव परस्परनीरपेक्षाणामपि स्यादत उच्यते-तस्याः समुदयसमितेर्यः समागमः-- परस्परं सम्बद्धतया विशिष्टैकपरिणामः समुदयसमितिसमागस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः सभावस्कन्ध इति 'लभ्यते' प्राप्यते भवति इति हृदयम्। इदमुक्तं भवति-सामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्ध, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । 'से त'मित्यादि निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति-से तं भावखंधे'त्ति। इदानीं त्वस्यैव एकाथिकान्यभिधित्सुराहमू.(६३) तस्स णं इमे एगडिया नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहावृ.गतार्थम्। मू.(६४) गणकाए अनिकाए खंधे वग्गे तहेव रासी । पुंजे पिंडे निगरे संघाए, आउल समूहे। वृ.'गण काए'गाहेति, व्याख्या-मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवनिकायः, त्यादिपरमाणुस्कन्धवत् स्कन्धः, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशिः, विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवनिकरः, तीर्थादिपु सम्मीलितजनसङ्घावत् सङ्घात:, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहः, एते भावस्कन्ध पर्यायवाचका ध्वनय इति गाथार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy