________________
२८२
अनुयोगद्वार - चूलिकासूत्रं
इह च सचित्तस्कन्धाधिकाराञ्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः, सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तुद तदधिष्ठितशरीराणीति सम्प्रदायः, न च जीवानां स्कन्धत्वं, पपद्यते, प्रत्येकमसङ्ख्येयपदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति, हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यं, किन्तु पृथग्भिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्तेतरादिव्यव्यवहारोच्छेदप्रसङ्गात्, 'से त'मित्यादि निगमनम् ।
अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह
मू. (५४ ) से किं तं अचित्ते दव्वखंधे ? २ अनेगविहे पत्रत्ते, तंजहा- दुपएसिए तिपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं अचित्ते दव्वखंधे ।
वृ. 'से’इत्यादि, अत्र निर्वचनम् -'अचित्तदव्वखंधे' इत्यादि, अविद्यमानचित्तोऽचित्तः सचासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकः, स्कन्ध इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेशः परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिक : स चासौ स्कन्धश्च द्विप्रदेशिस्कन्धः, एवमन्यत्रापि यथायोगं समासः । 'से त' मित्यादि निगमनम् ।
अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह
मू. (५५) से किं तं मीसए दव्वखंधे ?, २ अणेगविहे पन्नत्ते, तंजहा- सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे, से तं मीसए दव्वखंधे ।
वृ. ' से ' इत्यादि । अत्रोत्तरम् -'मीसए दव्वखंधे० सेणार' इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः सचासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः कोऽसावित्याह- सेनायाः - हस्त्यश्वरथपदातिसन्नाहखड्गहकुन्तासमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकं, पश्चिमस्कन्धः पश्चिमानीकम् एतेषु हि हस्त्यादय: सचित्ताः खङ्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति । 'से त' मित्यादि निगमनम्। तदेवमेकेन प्रकारेण तद्वयतिरिक्तो द्रव्यस्कन्धः प्ररूपितः ।
अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह
J
मू. (५६) अहवा जाणयसरीरभविअसरीरखइरिते दव्वखंधे तिविहे पन्नत्ते, तंजहाकसिणखंधे अकसिणखंधे अनेगदवियखंधे ।
वृ. ' अथवा ' अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा - कृत्स्रस्कन्धः अकृत्स्रस्कन्धोऽनेकद्रव्यस्कन्धः । तत्राऽऽद्यभेदनिरूपणार्थमाहमू. (५७) से किं कसिणखंधे ?, से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, से तं कसिणखंधे ।
वृ. 'से' इत्यादि, अत्रोत्तरम् - 'कसिणक्खंधे' इत्यादि, यस्मान्दयो बृहत्तरः स्कन्धो नास्ति सकृत्स्र:- परिपूर्णः स्कन्ध कृत्स्नस्कन्धः, कोऽयमित्याह - 'से चेवे' त्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिकस्कन्धः कुत्स्नस्कन्धः । आह-यद्येवं प्रकारान्तरत्वमसिद्धं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवं, प्राग् सचित्तद्रव्यस्कन्धाधिकारात्, तथाऽसम्भविनोऽपि बुद्धया निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International