________________
२८१
मूलं-४८
वृ.'सुअ' गाहा, गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रं, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदनिष्ठारूपं, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनं, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिताहितप्रवृत्तित्त्युपदेशः, यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणाच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, 'सूत्रे' सूत्रविपये एकार्थाः पर्याया इति गाथार्थः ।
म.(४९) से तंसु।
वृ. 'से तं सुअ'मित्यादि, तदेतन्नामादि भेदैरुक्तं, श्रुतमित्यर्थः । __ (इति अनुयोगद्वारग्रन्थे श्रुताधिकार: कथितः। अथस्कन्धाधिकार: कथ्यते) साम्प्रतं यदुक्तं 'स्कन्धं निक्षेप्स्यामी'ति, तत्सम्पादनार्थमुपक्रमत
मू. (५०) से किं तं खंधे?. २ चउविहे पन्नत्ते, तंजहा-नामखंधे ठवणाखंधे दब्वखंधे भावखंधे। .
वृ. अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह 'खंधे चउब्विहे' इत्यादि। मू.(५१) नामट्ठवणाओ पुवणिआनुकमेण भाणिअव्वाओ।
वृ. अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भावनीयम् ।
मू.(५२)से किं तंदव्वखंधे?, २ दुविहे पन्नत्ते, तंजहा-आगमतो अनोआगमतो अ, से किंतं आगमओ दव्वखंध?, २ खंधेत्ति पयं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरीरवहरिते दव्वखंधे?, २ तिविहे पन्नत्ते, तंजहा-सच्चित्ते अचित्ते मीसए।
वृ. द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीय, प्रायस्तुल्यवक्तव्यत्वादिति । ‘से कि तं जाणयसरीरविअसरीरवइरित्ते दव्वखंधे' इति प्रश्ने निर्वचनमाह-'जाणयसरीरभविसरीरवइरित्ते दव्वखंधे तिविहे पन्नत्ते' इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः ।। तत्राऽऽद्यभेद जिज्ञासुः पृच्छति
मू.( ५३ )से किं तं सचित्ते दव्वखंधे ?, २ अनेगविहे पन्नत्ते, तंजहा-हयखंधे गयखंधे किन्नरखंधे किंपुरसखंधे महोरगखंधे गंधवखंधे उसभखंधे, से तं सचित्ते दव्वखंधे।
वृ. 'से किं त'मित्यादि, 'अत्रोत्तरम्-'सचित्तदव्वखंधे अनेगवीहे पन्नत्ते' इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो' व्यक्तिभेदतोऽनेकप्रकार: प्रज्ञप्तः, तद्यथा-'हयस्कन्ध' इत्यादि, हयः-तुरगः स एव विशिष्टैकपरिणामपरिणत्वात्, स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिष्वपि समासः, नवरं किन्नारकिम्पुरुषमहोरगा व्यन्तरविशेषाः 'उसभ'त्ति वृषभः, क्वचिद्गन्धर्वस्कन्धादीन्यकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसुपसयविहगवानरखंधे'त्ति क्वचिद् दृश्यते, तत्र पशुः-छगलकः, पसयस्तुआटविको द्विखुरः चतुष्पदविशेषः, विहगः-पक्षी, वानरः-प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं दृष्टव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org