________________
२८०
अनुयोगद्वार-चूलिकासूत्रं जानन्तीति, सर्वज्ञाः, तै:, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीताद्यर्थज्ञातृत्वेऽपि नोपपद्यते, कतिपयधर्माधभीष्टपदार्थज्ञातृत्यस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः
___ "सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु ।।
कीटसंख्यापरिज्ञानं, तत्र(स्य)न: कोपयुज्यते? ॥" इत्यादि, यथोक्तगुणविशिष्टत्वात् 'तिलुक्कवहियमहिये'त्यादि, वहिय'त्ति विगलदहला-- नन्दा श्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तेन महिता-अभिष्टुताः सुगन्धिपुष्पकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे तैलोक्येनभवनपतिव्यतन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन वहितमहितपूजितास्तैः, अत्राऽऽहननूत्पन्नज्ञानदर्शनधरैरित्युक्तम्, उत्पत्तिमत् सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानं, उत्पो च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिनः प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाऽऽह-'अप्रतिहतवरज्ञानदर्शनधरै रिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते-मर्तामर्तेषु समस्तवस्तुष्वस्खलिते अत एव वरे-प्रधाने केवलज्ञानदर्शनलक्षणे ज्ञानदर्शने धरन्ति येते तथा तैः, यत्त्ववध्यादेः सप्रतिधत्वं तन्नोत्पत्तिमत्त्वेन, किं तर्हि ?, आवरणसद्भावाद्, अतोऽ प्रतिधकेवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिवत्वाभ्युपगमेऽतिप्रसङ्गाद, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र, तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथा वाऽविरोधतः सुधिया व्याख्येयानि।
तैरर्थकथनद्वारेण प्रणीतं' प्ररूपितं, कि तद्?-'द्वादशाङ्गं श्रुतं' परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि-आचारादीनि यत्र तद् वादशाङ्गं, किंभूतं?, 'गणिपिटकं गुणगणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकं-सर्वस्वं गणिपिटकं, तद्यथा-आचार इत्यादि सुगमम्। अत्र द्वादशाङ्गश्रुतस्य चरणगणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयं, देशस्य चरणगुणलक्षणस्यानागमत्वान्नो शब्दस्य च देशप्रतिषेध(क)त्वेनाश्रयणाद, एवं पूर्वत्रापि लौकिकभाव श्रुते वाच्यम्, निगमयन्नाह-'से कं लोउत्तरिय' मित्यादि।
एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयति-'से तं नोआगमतो भावसुअं' इत्यादि । एतद्भणने चोक्तं सर्वमपि भाव श्रुतमतो निगमयति-'से तं भावसुअ'मिति । तदेवं स्वरूपत उक्तं भाव श्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह
मू.(४७) तस्स णं इमे एगडिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा
वृ. 'तस्य' श्रुतस्य 'अमूनि' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि 'एकाथिकानि' तत्त्वत एकार्थविषयाणि 'नानाघोषाणि' पृथभिन्नोदात्तादिस्वराणि' नानाव्युञ्जनानि' पृथग्भिन्नाक्षराणि 'नामधेयानि' पर्यायध्वनिरूपाणि भवन्ति, तद्यथामू. (४८) सुअसुत्तगंथसिद्धतसासने आनवयण उवएसे।
पन्नवण आगमेऽवि अ एगट्ठा पज्जवा सुते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org