________________
२७४
अनुयोगद्वार-चूलिकासूत्रं नष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कार्य चान्यत्राकुर्वन्, एकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालम्' उभयसन्ध्यं यदावश्यक कुर्वन्ति तल्लोकोत्तरिकं, भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावत, भावत्वं मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वात् नोआगमत्वं भावनीयम्, ‘से त'मित्यादि निगमनम्। तदेवं स्वरूपत उक्त भावावश्यकम्, अनेन चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह
मू.(२९)तस्स णं इमे एगडिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा
वृ.'तस्स आवश्यकस्य अमूनि वक्ष्यमाणानि एकार्थिकानि' परमार्थत एकार्णविषयाणि 'नानाघोषाणि' पृथग्भित्रोदात्तादिस्वराणि 'नानाव्यञ्जनानि' पृथग्भित्रककाराद्यक्षराणि 'नामधेयानि' पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं' गाहा, मू.(३०) आवस्सय १ अवस्संकरणिज्ज २ धुवनिग्गहो ३ विसोही४ ।
अज्झयणछकवग्गो ५ नाओ ६ आराहणा७ मग्गो ८॥ वृ. श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा असमन्ताद्वशयः क्रियतेऽनेनेत्यावश्यकम्, अथवा आ-समन्तद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यं, पूर्वमपि च व्युत्पादितमिदं तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयं, तथा 'ध्रुवनिग्रहः' इति अत्रानादित्वात् कचिदपर्ययवसितत्वाच्च ध्रुवंकर्म तत्फलभूत: संसारो वा तस्य निग्रहहेतुत्वान्निग्रहो धूवनिग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, तथा सामायिकादिषडध्ययनकलापात्मकत्वादध्ययनष्टकवर्गः, तथाऽभीष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः, अयमभिप्रायो-यथा कारणिकैर्दष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनामप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रया अयिभावसम्बन्धमपनयतीत्यावश्यकमपिन्याय उच्यते, तथा मोक्षाराधनाहेतुत्वादाराधना, तथा मोक्षापुरप्रापकत्वादेव मार्ग इति गाथार्थः । उक्त गाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाहमू.(३१) समणेणं सावएण य अवस्सकायव्वयं हवइ जम्हा।
अंतो अहोनिसस्स य तम्हा आवस्सयं नाम। वृ. 'समणेण' गाहा, श्रमणादिना, अहोरात्रस्यमध्ये यस्मादवश्यंक्रियते तस्मादावश्यकम्, एवमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिदृष्टव्या उपलक्षणत्वादस्याः, इति गाथार्थः ।
मू. (३२) से तं आवस्सयं।
वृ. 'सेत'मित्यादि निगमनं, तदेतदावश्यकं निक्षिप्तमित्यर्थः । तदेवं नामादिभेदैनिक्षिप्तमावश्यकं, तनिक्षेपे च यदुक्तम्-'आवश्यकं निक्षेप्स्यामि'ति तत् सम्पादितम् (इति अनुयोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org