SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २७५ मूलं-३२ द्वारग्रन्थे आवश्यकाधिकारः कथितः ।। अथ श्रुताधिकारः कथ्यते) साम्प्रतं पुनर्यदुक्तम्-'श्रुतं निक्षेप्स्यामी'ति तत्सम्पादनार्थमाहमू.(३३)से किंतंसुतं? २ चउचिहं पन्नत्तं, तंजहा-नामसुअंठवणसुअंदव्वसुअंभावसु। वृ.अथ किं तत् श्रुतमिति प्रश्नः, अत्र निर्वचनं 'सुअंचउव्विह'मित्यादि, 'श्रुतं' प्राग्निरूपितशब्दार्थं चतुर्विधं प्रज्ञप्तं, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भाव श्रुतं च । तत्राऽऽद्यभेदनिर्णयार्थमाह मू.(३४) से किं तं नामसुअं?, २ जस्सणं जीवस्स वा जाव सुएत्ति नामं कज्जइ से तं नामसुअं ७. अत्र निर्वचनं-नामश्रुतं, 'जस्स ण'मित्यादि, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्स वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नाम श्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः, अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते नाम क्रियते तञ्जीवादिवस्तु नाम श्रुतं, नाम्ना-नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः। तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवभ्यूह्य वाच्या, से 'त'मित्यादि निगमनम्। उक्तं नामश्रुतम्, अथ स्थापना श्रुतनिरूपणार्थमाह मू.(३५) से किं तं ठवणासुअं?, जंणं कट्टकम्मे वा जाव ठवणी उविज्जइ, से तं ठेवणासुअं। नामठवणाणं को पइविसेसो ?, नाम आवकहिअंठवणा इत्तरिआ वा होज्जा आवकहिआ वा। वृ.अत्र निर्वचनम्-"ठवणासुअंजं न'मित्यादि, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं दृष्टव्यं, नवरभावश्यकस्थाने श्रुतमुच्चारणीयं, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्त एकादिसाध्वादयः स्थाप्यमानाः स्थापनाश्रुतमिति तात्पर्यम्। 'सेत'मित्यादि निगमनम् 'नामठवणाणं को पइविसेसो?' इत्यादि पूर्व भावितमेव, वाचनान्तरे तु 'नामठवणाओ' भणियाओ इत्येतदेव दृश्यते, आवश्यकनामस्थापनाभणनेन प्रायोऽभिन्नार्थत्वात्, श्रुतनामस्थापने अप्युक्ते एव भवतः इत्यतो नात्र ते पुनरुच्यते इति भावः। द्रव्य श्रुतनिरूपणार्थमाहमू. (३६) से किं तं दव्वसु?, दुविहं पन्नतं, तंजहा-आगमतो अ नोआगमतो । वृ.अत्र निर्वचनम्-‘दव्वसुअं दुविह'मित्यिादि, द्रव्यश्रुतं द्विविधं प्रज्ञप्तं, तद्यथा-आगमतो नोआगमतश्च। अत्राऽऽद्यभेदनिर्णयार्थमाह मू.(३७) से किं तं आगमतो दुव्बसु?, २ जस्स नं सुएत्ति पयं सिक्खियं ठियं जियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्ट, नेगमस्स नं एगो अनुवउत्तो आगमतो एगंदब्बसुअंजाव कम्हा? जइ जाणए अनुवउत्ते न भवइ । से तं आगमतो दव्वसुअं, वृ.अत्र निर्वचनम्-'आगमओ दब्बसुअ'मित्यादि, यस्य कस्यचित् श्रुतमिति एवं श्रुतपदाभिधेयमाचारादिशास्त्र शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तक वाचनाप्रच्छनादिभिवर्तमानोऽपि श्रुतोपयोगेऽवर्तमानावादागमतः-आगममाश्रित्य द्रव्य श्रुतमिति समुदायार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy