SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मूलं-२७ २७३ यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः, अथवा देशीभाषया इज्येति माता तस्या नमस्कारविधौ तद्भक्तैः, क्रियमाणः, करकुड्मलमौलनलक्षणोऽञ्जलिरिज्याञ्जलिः, होम: अग्निहोत्रिकै: क्रियमाणमगिहवनं जपो-मन्त्राद्यभ्यासः 'उंदुरुक्क'त्ति देशीवचनं उन्दु-मुखं तेन रुक्कं-वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः, एतेषां द्वन्द्वे इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारास्ते आदिर्येषां तानि तथा, आदिशब्दात्, स्तवादिपरिग्रहः, एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यत्वम्, एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावात् भावत्वम्, अन्यच्च चरकादीनां तदार्थोपयोगलक्षणो देश आगम: देशस्तु करशिरोव्यापारादिक्रियालक्षणों नोआगमस्ततो देश आगमाभावमाश्रित्य नोआगमत्वमगन्तव्यं, नोशब्दस्येहापि देशनिषेधपरत्वात्, तस्माच्चरकादयस्तदुरपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव, 'सेत'मित्यादि निगमनम्। उक्तो नोआगमतो भावावश्यकद्वितीयभेदः अथ, तृतीयभेदनिरूपणार्थमाह मू.(२८) से कितं लोगंतरिअं भावावस्सयं?, २ जण्णं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मने तल्लेसे तदझवसिए तत्तिव्वज्झवसाणे तदट्टोवउत्ते तदप्पिअकरणे तभावणाभाविए अनत्थ कत्थइ मनं अकरेमाणे उभओकालं आवस्सयं करेंति से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं भावावस्सय।। वृ.अत्र निर्वचनम्-'लोउत्तरियं भावावस्सयं जं न'मित्यादि जं नं'ति नमिति वाक्यालङ्कारे यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्री-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चायाः, तस्मिन्नेवाऽऽवश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चितः, तस्मिनेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसित:-इहाध्यवसायोऽध्यवसितं, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसाय:-तस्मिन्नेवाऽऽवश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा, तथा 'तदर्थोपयुक्तः' तस्य -आवश्यकस्यार्थस्तदर्थस्तस्मिनुपयुक्तस्तदर्थोपयुक्तः-प्रशस्ततरसंवेगविशुद्धयमानः तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिन्आवश्यके यथोचित्तव्यापारनियोगेनापितानि-नियुक्तानि तानि येनसतथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः तस्य-आवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानुरूपा तया भावितः-अङ्गाङ्गीभावेन परिणतयावश्यका30/18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy