________________
मूलं - २०
गच्छन्ति से तं लोइयं दव्वावस्सयं ।
वृ. अत्र निर्वचनमहा - 'लोइय' मित्यादि, लोके भवं लौकिकं शेषं तथैव, अत्र य एते राजेश्वरतलवरादयः प्रभातसमये मुखधावनादि कृत्या ततः पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यातिरिक्तं द्रव्यावश्यकमिति समुदायार्थः ।
'तत्र राजा - चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च ईश्वरो- युवराजः सामान्यमण्डलि - कोऽमातयश्च, अन्ये तु व्याचक्षते अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः, परितुष्टनरपतिप्रदत्तरत्नालं'कृतसौवर्णपट्टविभूषितशिरास्तलवर:, यस्यो पार्श्वत आसन्नपरं ग्रामनगरादिकं नास्ति तत्सर्वत-रिछन्नजना श्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, इभो - हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः - यस्य सत्कपुञ्जीकृत हिरण्यरत्रादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापतिः,
"गणिमं धरिमं मेज्जं पारिच्छेञ्जं च दव्वजायं तु । धेत्तूर्ण लाभत्थं वच्चइ जो अन्नदेसं तु ॥ १ ॥ निवबहुमओ पसिद्धो दीनानाहाण वच्छलो पंथे । सो सत्थवाहनामं धनोव्व लोघ समुव्वहई ॥ २॥"
Jain Education International
एतल्लक्षणयुक्तः सार्थवाहः, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कल्लं पाउप्पभायाए' इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्था: प्राह'पाउ' इत्यादि, प्रादुः- प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां किञ्चिदुपलभ्यमानप्रकाशामिति भाव:, तदनन्नतरं 'सुविमलायां' तस्मामेव किञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथं भूत इत्याह- 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं विकसितं तच्च तदुत्पलं च फुल्लोत्पलं कमलो-हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कोमलम् - अकठोरं दलानां नयनयोश्चयोन्मीलितम् उन्मीलनं यत्र प्रभाते तत् तथा (तस्मिन्), अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उट्ठिए सूरिए 'त्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह
'रक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके' कमलानामाककरा - उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानि तेषां बोधको यः स तथा तस्मिन् पुनः किंभूते तस्मिन्नित्याहसहस्त्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन् तेजसा ज्वलति सति, तत्रैवैते भावा: सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्रकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहिकेचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्या मनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति,
२६७
For Private & Personal Use Only
www.jainelibrary.org