SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २६८ __ अनुयोगद्वार-चूलिकासूत्रं 'मुहधोवणे'त्यादि, मुखधावनं च दन्प्रक्षालनं च तैलं च फणिहश्च सिद्धार्थश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाभरणपरिधानादीनां तानि तथा, तत्र फणिहः-कङ्कतकस्तंमस्तकादौ व्यापारयन्ति, सिद्धार्था:-सर्षपाः, हरितालिका-दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, आदर्शे तु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानिमाल्यम्, एतेषां च मस्तकादिषूपयोगः,शेषं स्वरूपत उपयोगतश्च प्रतीतमेव, एतानि द्रव्यावश्यकानि कृत्वा तत: पश्चाद्राजकुलादौ गच्छन्ति । अत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविध पुष्पाजात्युपशोभित आरामः, वस्त्राभरणादिसमलंकृतविग्रहा: सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितमुद्यानं, भारतादिकथानविनोदेन यत्र लोकस्तिष्ठति सा सभा, शेषं प्रतीतम्। ___ अत्राह-ननु राजादिभिः प्रभातेऽवश्यं क्रियत इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवत् मुखधावनादीनां, द्रव्यत्वं तु कथममीषां?, विवक्षितभावस्य हि कारणं द्रव्यं भवति, 'भूतस्य भाविनोवा भावस्य ही त्यादिवचनात.नच राजादिभिः क्रियमाणानिमुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यं, किन्तु भूतस्य भाविनो वेत्याद्येवन मन्तव्यं, किंतर्हि?,"अप्पाहनेवि दव्वसद्दोत्तो(त्थी)"ति वचनादप्रधानवाचकोऽपि द्रव्यशब्दोऽवगन्तव्यः, अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजदिमुखधावनादीनि, ततश्च द्रव्यभूतानिअप्रधानभूतान्यावश्यकानि द्रव्यावश्यकानि एतानीत्यदोषः, नोआगमत्वं चेहाप्यागमाभावानोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण, निगमयत्राह-'सेतं लोइय'मित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः । उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यक (स्य)प्रथमो भेदः । अथ द्वितीयभेदनिरूपणार्थमाह- . मू.(२१)से कितंकुप्पावणिअंदव्वावस्सयं?, २ जे इमे चरगचीरिगचम्मखंडिअभिक्खोंडपंडुरंगगोअमगोव्वतिअगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धवुड्सावगप्पभितओ पासडंत्था कलंपाउप्पभायाए रयणीए जावतेअसा जलते इंदस्स वा खदस्स वारुदस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूअस्स वा मुगुदस्स वा अज्जाए वा दुग्गए वा कोट्टकिरियाए वा उवलेवणसंमज्जणआवरिसणधूवपुप्फगंधमलाइआइंदव्वावस्सयाई करेंति, से तं कुप्पावयणियं दव्यावस्सयं। ... वृ. अथ किं तत् कुप्रावचनिकं द्रव्यावश्यकं?, अत्र निर्वचनम् -'कुप्पाक्यणियं दव्यावस्सयं जे इमे' इत्यादि, कुत्सितं प्रवचनं येषां ते कृप्रवचनास्तेषामिदं कृप्रावचनिकं द्रव्यावश्यकं, किं पुनस्तदित्याह-'जे इमे' इत्यादि, यएते चरकचीरिकादयः प्रभातसमये इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावनिकं द्रव्यावश्यकमिति समुदायार्थः । तत्र धाटिबाहका: सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीरपरिधानाचीरिकाः अथवा येषां चीरमयमेव सर्वमुपकरणं ते चौरिकाः, चर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy