________________
२६६
अनुयोगद्वार - चूलिकासूत्रं
शरीरं, तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं, भव्यशरीर द्रव्यावश्यकं, किं पुनस्तदित्यत्रोच्यते यो जीवो योनिजन्मत्वनिष्कान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छक्षते तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः ।
साम्प्रतमयवार्थ उच्यते तत्र यः कश्चिद् 'जीवो' जन्तुः योन्या- योषिदवाच्यदेशलक्षणाया: परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वासमुच्छ्रयस्तेन आत्तेन आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, 'सेयकाले 'त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्येष्वते साम्प्रतं तं न तावद्यापि शिक्षते, तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं ।
नो आगमत्वं वात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य 'चात्रापि सर्वनिषेधवचनत्वात् । अत्राऽऽह - नन्वाश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ?, न हि कार्या भावे वस्तुनः कारणत्वं यज्यते, अतिप्रसङ्गात्, अतः कथमस्य द्रव्यावश्यकता ? सत्यं, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तदनुसारिणः पठन्ति'भाविनि भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति-यथा को ऽत्रदृष्टान्त इति, निर्वचनमाह - यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्व पर्याये भविष्यत्यपि छोकेऽयं मधुकुम्भो धृतकृम्भो वेत्यादिः दृश्यते, तथाऽत्राप्यवश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निगमयन्नाह
'सेत्त' मित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति । उक्तो नोआगमो द्रव्यावश्यकद्वितीयभेदः तृतीयभेदनिरूपणार्थमाह
मू. (१९) से किं तं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं ?, २ तिविहं पन्नत्तं, तंजहा - लोइअं कुप्पावयणियं लोउत्तरिअं ।
वृ. अथ किं तत् ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ?, निर्वचनमाह- 'जाणगरसीरभविसरीरवइरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यावश्यकमुतच्च त्रिविधं प्रज्ञसं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदं जिज्ञासुराह
मू. (२०) से किं तं लोइयं दव्वावस्सयं ?, २ जे इमे राईसरतलवरमाडुंबिअइब्भसेट्ठिसेनावइसत्थवाहपभितिओ कल्लं पाउप्पभायाए रयणीए, सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसु अमुहगुंजद्धरागसरिसे कमलागरनलिनिसंडबोहए उद्विअंमि सूरे सहस्सरस्सिमि दिनयरे ते असा जलते मुहधोअनदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलि अद्दागधूवपुप्फमल्लगुधतंबोलवत्थाइंआई दव्वावस्थाई करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पर्व वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International