________________
२६५
Ha
मूलं-१७ प्रतिपत्स्यन्ते च तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधना: सिद्धयन्ति तत्रेतिकृत्वा, अन्ये तु व्याचक्षते-यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं, तद्गतं-तत्रस्थितं सिद्धशिलातलगतम्, इह निसीहियागयंवे'त्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात् स्वयमेव भावनीयानि, नवरं नैषेधिकी-शबपरिस्थानपनभूमिः, अपरं चात्रान्तरे पासित्तानं कोई भणिज्ज'त्ति ग्रन्थ: क्वचिदृश्यते, सच समुदायार्थकथनावसरे योजित एव, यत्र तु न दृश्यते तत्राध्याहारो दृष्टव्यः, अहोशब्दो दैन्यविस्मयामन्त्रषेणु वर्तते, स चेह त्रिष्वपि घटते, तथाहि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थितमामन्त्रयमाणस्याऽऽमन्त्रणे, 'अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन, 'जिनदृष्टेन' तीर्थङ्कराभिमतेन, 'भावेन' कर्मनिर्जरणाभिप्रायेण, अथवा भावेन-तदावरणकर्मक्षयक्षयोपशमलक्षणेन, आवश्यकपदाभिधेयंशास्त्र आघवियं'ति प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतं, 'प्रज्ञामपितं' सामान्यतो विनेयेभ्य: कथितं, 'प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, 'दर्शितं' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, 'निदर्शितं' कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, 'उपदर्शितं' सर्वनययुक्तिभिः । __ आह-नन्वनेन शरीरसमुच्छ्रयेणाऽऽवश्यकमागृहीतामित्यादिनोपपद्यते, ग्रहणप्ररूपणादीनां जीवधर्मत्वेनं शरीरस्याघटमानत्वात्, सत्यं, किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारदित्थमुपन्यास इत्यदोषः । पुनरप्याह-ननु यद्यपि तच्छरोरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति, तथाऽपिकथं तस्य द्रव्यावश्यकता?, यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, 'भूतस्य भाविनो वे'त्यादिपूर्वोक्तवचनात्, कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरं न त्विदं, चेतनारहितत्वात्, तस्यापि तत्कारणेत्वेऽतिप्रसङ्गात्, सत्यं किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः,स्यादेवं, यद्यत्रार्थे कश्चिद् दृष्टान्त: स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः?, इति पृष्टे सत्याह-यथाऽयं 'घृतकुम्भ आसीत्' 'अयं मधुकुम्भ आसी'दित्यादि, एवदुक्तं भवति-यथा मधुनि घृत वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह-'से त'मित्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम्।। उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह
मू.(१८) से किंतं भविअसरीरदव्वावस्सयं?, २ जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आतएणं सरीरसमुस्सएणं जिनोवदिट्टेणं भावेणं आवस्सएत्तिपयंसेयकाले, सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो? अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भविअसरीरदव्वावस्सयं।
व. अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह-'भवियसरीरदव्वावस्सयं जे जीवे'त्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हस्तद्योग्य इत्यर्थः, तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org