________________
मूलं-३१७
४५३ ___ अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयं पूर्ववत् वय॑ते, ततश्चैतै षडनन्तकप्रेक्षपाः प्रक्षिप्यन्ते, तद्यथा
"सिद्धा निगोयजीवा वणस्सई काल पुगाला चेव।
सव्वमलोगागासं छप्पेतेऽनंतपक्खेवा ।।" । अयमर्थः-सर्वे सिद्धाः सर्वे सूक्ष्मबादरनिगोदजीवा: प्रत्येकानन्ताः सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालासमयराशिः सर्वपुद्गलद्रव्यसमूहः सर्वोऽलोककाशप्रदेराशिः एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वर्यते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य संगृहीतत्वात्, अतः परंवस्तुसत्त्वस्यैव सङ्ख्याविषयस्वयाभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेवतत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति भावः।
सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम् । तदेवं प्ररूपितमनन्तानन्तकं तत्परूपणे च समाप्ता गणनसङ्ख्या। ___ अथ भावसङ्ख्यानिरूपणार्थमाह-'से किं तं भावसंखा' इत्यादि, इह सङ्ख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्, गुणप्रमाणे एवान्तर्भावः स्यादिति। तत्र भावशङस्वरूपं दर्शयितमाह-'जे इमे'इत्यादि, ये इमे-प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा 'जीवाः' आयु:-प्राणादिमन्तः शङ्खगतिनामगोत्राणि'इति शङ्खगतिनामगोत्रशब्देनेहशङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्दियजात्यौदारिकशरीरङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्चशङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणंगोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एव भावसंख्या: प्रोच्यन्ते, तदेवं समाप्तं सत्याप्रमाणम्,
अतो निगमयति-'से तं संखप्पमाणे'त्ति, तत्समाप्तौ चावसितं भावप्रमाणमित्याह-'से तं भावप्पमाणे'त्ति, एतदवसाने चनिःशेषितं प्रमाणद्वारमित्युपसंहरति-'सेतं पमाणे ति।प्रमाणद्वारं समाप्तम्।
अथ क्रमप्राप्त वक्तव्यताद्वारं निरूपयितुमाहमू.(३१८)सेकिंतंवत्तव्वया?,२तिविहा पन्नत्ता, तंजहा-ससमयवत्तव्वया परसमयवत्तव्यया ससमयवत्तव्वया । से किं तं समयवतव्वया?, २ जत्थ णं ससमए आघविज्जइ पन्नविज्जइ परूविज्जइदंसिज्जइ निदसिज्जइ उवदसिज्जइ, से तं ससमयवत्तव्यया।
से किं तं परसमयवतव्वया?, २ जत्थं णं परसमए आधविज्जइ जाव उवदंसिज्जइ, सेतं परसमयवत्तव्वया। से किंतं ससमयपरसमयवसब्बया?, २ जत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ, से तं ससमयपरसमयवतव्वया।
इदानी को नओ कं वत्तव्वयं इच्छइ?, तत्थ नेगमसंगहववहारा तिविहंवत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयवत्तव्वयं, उज्जुसुओ दुविहं वत्तव्वयं इच्छा, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International