________________
-
-
४५४
अनुयोगद्वार-चूलिकासूत्रं तंजहा-ससमयवत्तब्वयं परसमयवत्तव्वयं, तत्थ णं जा सा ससमयवत्तव्बया सा ससमयं पविट्ठा जासा परसमयवत्तव्वया सा परसमयं पविद्धा, तम्हा दुविहा वत्तव्बया, नथितिविहा वत्तव्बया, तिनि सहनया एवं(ग) ससमयवत्तव्वयं इच्छति, नत्थि परसमयवत्तव्बया, कम्हा?, जम्हा परसमए अणढे अहेऊ असम्भावे अकिरिए उम्मग्गे अनुवएसे मिच्छादसणमितिकट्ट, तम्हा सब्बा ससमयवतन्वया, नत्थि परसमयवत्तब्धया, नत्थि ससमयवतव्बया। से तं वत्तव्वया।
वृ.तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधास्वसमयादिभेदात्, तत्र यस्यां नमिति वाक्यालङ्कारे स्वसमयः स्वसिद्धान्तः आख्यायते यथापञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा-गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा-स एवासङ्ख्यातप्रदेशात्मकादिस्वरूपः, तथा दय॑ते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा-तथैवैषोऽपि जीवपुद्गलानां गत्युप्रटम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन व्याख्यातिमिदं, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृदङ्गप्रथमाध्ययने
"संति पञ्च महब्भूया, इहमेगेसि आहिया। पुढवी आऊ तेऊ(य), वाऊ आगासपंचमा ॥१॥
एए पंच महब्भूया, तेब्भो एगोत्ति आहिया।
अह तेसि विनासेणं, विनासो होइ देहिणो।।२।" इत्यादि, अस्य च श्लोकद्वयस्य सूत्रकृदवृत्तिकारलिखित एवायं भावार्थ:-'एकेषां नास्तिकानां स्वकीयाप्तेन 'आहितानि' आख्यातानि 'इह' लोके 'सन्ति विद्यन्ते पञ्च समस्तलोके व्यापक त्वान्महाभूतानि, तान्येवाह
'पृथिवी'त्यादि पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह-'एएपंचे'त्यादि, एतानि' अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभ्य' इति तेभ्य:-कायाकारपरिणतेभ्यः एकः' कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते'आहिय'त्ति आख्यातवन्तः, अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेत्येवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्ततेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्धया कार्यः, सेयं परसमयवक्तव्यता। स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्च आख्यायते, यथा
"आगारमावसंता वा, आरण्णा वावि पव्वया।
इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई ।" त्यादि, व्याख्या-'आगारं गृहं तत्रावसन्तो गृहस्थ इत्यर्थ: 'आरण्या वा' तापसादयः पव्वइय'त्ति प्रव्रजिताश्च शाक्यादयः, 'इदम्' अस्मदीयं मतमापन्ना-आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं(य) परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमयपरसमयवक्तव्यतोच्यते।
अथ वक्तव्यतामेव नयैर्विचारयन्नाह-'इदानी को नओ' इत्यादि, अत्र नैगमव्यवहारौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org