________________
मूलं-३०९ तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थो भयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलो(लेनो)पलब्धेः, गणधराणां तु सूत्रास्यात्मागमः, स्वयमेव ग्रथितत्वाद, अर्थस्यानन्तरागमः, अनन्तरेव तीर्थकरादागतत्वाद, उक्तं च
"अत्थं भासइ अरहा सुत्तं गंथंति गणहरानिउण"मित्यादि, गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः-अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः-गणधरेणैव व्यवधानात्, ततः ऊर्ध्वं प्रभावादीनां सूत्रस्यार्थस्यच नात्मागमो नानन्तरागमः, तल्लक्षणायोगाद, अपि तु परम्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तहि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पनत्वाद्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्यं-वचनस्य पौद्गलिकत्वमसिद्धं, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः तस्मानकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यांग्यत्वाद् देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरनिर्णीतत्वादिति। 'से तं लोगुत्तरिए'इत्यादि निगमनत्रयम्। उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाह
मू. (३०९ वर्तते)से किंतंदसणगुणप्पमाणे?, २ चउबिहे पन्नत्ते, तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुन सव्वपज्जवेसु केवलदंसणं केवलदंस-णिदस्स सव्वदव्वेसु असव्वपज्जवेसु अ, से तं दंसणगुणप्पमाणे। वृ. दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च
जं सामान्नग्गहणं भावाणं नेय कट्टमागारं ।
अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ।।" तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधं, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः-चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषुद्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषोः कथञ्चिदभेदादेकान्तेन विशेषभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम्, उक्तं च-"निर्विशेष विशेषाणां, ग्रहो
यते" इत्यादि, चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिन:-अचक्षुर्दर्शनलब्धिमतो 30/28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org