SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४३४ अनुयोगद्वार - चूलिकासूत्रं जीवस्यात्मभावे भवति, आत्मनिजोवे भाव :- संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवतीत्यर्थः, इदमुक्तं भवति चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनतीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधेनं कृतं, श्रोतादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्माभावे भवतीत्येवमिह विषय-स्याभेदेन प्रतिपादनमकारीति, उक्तं च- "पुढं सुणेइ सद्दं रूवं पुण पासई अपुठ्ठे तु" इत्यादि । अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शन:- अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्ख्येया असङ्घयेया वा पर्याया विषयत्वेनोक्ताः, जघन्यतत्सु द्वौ पर्यायौ द्विगुणितौ, रूपगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं च"दव्वाओ असंखे संखे आवि पञ्जवे लहइ । दो पञ्जवे दुगुणिए लहइ य एगाउ दव्वाओ ।" अत्राह - ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवतिमर्हति ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः साधूक्तं केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः समान्यं गुणीभूतास्तु विशेषां अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिन: - तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्त्तामूर्तेषु सर्वपर्यायेषु भ भवतीति। मन: पर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गुह्रदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति, तदेतद्दर्शनगुणप्रमाणम् । मू. ( ३०९ वर्तते ) से किं तं चरितगुणप्पमाणे ?, २ पंचविहे पन्नत्ते, तंजहा- सामाइअचरित-गुणप्पमाणे छेओवद्वावणचरितगुणप्पमाणे परिहारविसुद्धिअचरितगुणप्पमाणे सुहुमसंपरायचरितगुणप्पमाणे अहक्खायचरित्तगुणप्यमाणे । सामाइअचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- इत्तरिए अ आवकहिए अ। छेओवट्टवणचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- साइआरे अ निरइआरे । परिहारविसुद्धिअचरित-गुणप्पमाणे दुविहे पत्रत्ते, तंजहा- निव्विसमाणए अ निव्विदुकाइए अ । सुहुमसुपरायचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- (संकिलिस्समाणए य विसुज्झमाणए य, अहवखायचरितगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-) पडिवाई अ अपडिवाई अ। (अहवा) अहक्खायचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- छउमत्थिए अ के लिए य। से तं चरितगुणप्पमाणे, से तं जीवगुणप्पमाणे, से तं गुणप्पमाणे । वृ. चरन्त्यनिन्दितमनेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः २ स एव प्रमाणं २सावद्ययोगविरतिरूपं, तच्च पञ्चविधं सामायिकादि, पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते, तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवाव. तिष्ठते सामायिकमिति, सामायिकं पूर्वोक्तशब्दार्थं, तच्चेत्वरं यावत्कथिकं च तत्रेत्वरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy