________________
४३२
अनुयोगद्वार-चूलिकासूत्रं गमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः कुश्लत्वमिति से किं तं पायसाहम्मे' इत्यादि, सुरककुदविषाणलांगुदे₹योरपि समानत्वात्, नवरं सकम्बलो गौत्तकण्ठस्तु गवय इति प्रायःसाधर्म्यता । सर्वसाधयं तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्साद्धं संभवति, सम्भवे त्वेकताप्रसङ्गः, तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्गयाह-तथापि तस्यविवक्षितस्याहंदादेस्तेनैव-अर्हदादिना औपम्यं क्रियते, तद्यथा-'अर्हता अर्हत्सदृशं कृतं' तत्किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापर: कश्चिदिति भावः, एवं च स एव तेनोपमीयते, लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्तेतत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम्। 'सेकिंतं वेहम्मोवणीए' इत्यादि, यथेति-यादृशः शबलाया गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथा चायं न तथेतरः, अत्र च शेषधमैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमावतस्तु वैलक्षण्यात् किञ्चिद्वैधवें भावनीयम्। _ 'से कि तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायोवैधयंता भावनीया, सर्ववैधम्यं तु न कस्यचित्केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह-तथापि तस्य तेनैवौपम्यं क्रियते यथा नीचेन नीवसदृशं कृतं गुरुघातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान वैधर्म्य, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः?, ततः सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासायुदाहरणेष्वपि वाच्यम् । _ 'से तं सव्ववेहम्मे इत्यादि निगमनत्रयम् ।
मू.(३०९ वर्तते)से किं तं आगमे?, २ दुविहे पन्नते, तंजहा लोइए उलोउत्तरिए आसे किंतं लोइए?, २ जन्नं इमं अन्नाणिएहि मिच्छादिट्ठीएहिं सच्छंदबुद्धिमइविगप्पियं, तं जहाभारह रामायणं जाव चत्तारिवेआ संगोवंगा, से तं लोइए आगमे। से किं लोउत्तरिए?, २ जनं इमं अरिहंतेहि भगवंतेहि उप्पन्ननाणदंसणधरेहिंतीयपच्चुप्पन्नमनागयजाणएहिं तिलुकवहिअमहिअपूइएहिं सव्वन्नूहि सव्वदरसोहि पणीअंदुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिविवाओ। .
अहवा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पत्रत्ते, तंजहा-अत्तागमे अनंतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अनंतरागमे गणहरसीसाणं सुत्तस्स अनंतरागमे अत्थस्स परंपरागमे, तेन परं सुत्तस्सवि अत्थस्सवि नो अत्तागमो नो अनंतरागमे परंपरागमे, से तं लोगुत्तरिए से तं आगमे, से तं नाणगुणप्पमाणे।
वृ. गुरुपारम्पर्येणागच्छतीत्यागमः,आ-समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः, अयं च द्विधा प्रज्ञप्तः, तद्यथा-'लोइए'त्यादि, इदं चेहैव पूर्व भावश्रुतं विचारयता व्याख्यातं, यावत् से तं लोइए, से कि तं लोगुत्तरिए आगमेत्ति, अहवा आगमे तिविहे'इत्यादि,.'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org