________________
मूलं-२९९
४१९ केष्वपि सर्व वाच्यं, वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह_ 'वाउकाइयाणं भंते !'इत्यादि, इहापि सर्व पृथिवीकायिकवद्वाच्यं, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्ये.ानि लभ्यन्ते, तानि च प्रतिसमयमपहियमाणानि क्षेत्रपल्योपमस्यासङ्घयेयभागे यावन्तो नभःप्रदेशा भवन्ति तत्ससङ्ख्यैः समयैरपहियन्ते, क्षेत्रपल्योपमासङ्घययभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः ‘नो चेव नं अवहिया सिय'त्ति परप्रत्यायनार्थ प्ररूपणैवत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपहियन्त इति भावः, ननु वायवः सर्वेऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते?, उच्यते, चतुर्विधा वायवः-सक्ष्मा अपर्याप्ताः पर्याप्ताश्च बादरा अपर्याप्ताः पर्याप्ताश्च, तत्राद्यराशिवये प्रत्येकं ते असवयेयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्घयेयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवतिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवै, बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति, अत्र केचिन्मन्यन्ते-ये केचन बान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरंतत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः,
अस्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति?, हंता अत्थि, कया णं भंते ! जाव वायंति?, गोयमा ! जया नं वाउयाए अहारियं रीयइ, जया णं जाव वाउयाए उत्तर-किरियं सीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउयायं उदीरंति तया णं ईसिंजाव वायंति" आहारियं रीयइत्ति रीतं रीतिः स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रोयते-गच्छति, यदा स्वाबाविकौदारिकशरीरगत्यागच्छतीत्यर्थः, उत्तरकिरियंति-उत्तरा-उत्तरवैक्रियशरीराश्रया गतिलक्षणाक्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते। तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण ।
वनस्पतिसूत्रेऽपि सर्व पृथ्वीकायिकवद्वक्तव्यं, नवरंपृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्घयातुल्यानि तैजसकार्मणान्युक्तानि, अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथाभावादनन्तानि, ततो न स्वस्थानबद्धौदारिककायतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि ।
मू. (२९९ वर्तते) बेइंदियाणं भंते ! केवइया ओरालियसरीरा पं०?, गो० ! दुविहा पत्रत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्सअसंखिज्जइभागो तासि नं सेढीण विक्खंभसूई असंखेज्जाओ जोअणकोडाकोडीओ असंखिज्जाइ सेढिवग्गमूलाई बेइंदियाणं ओरालियबद्धेल्लएहिं पयरं अवहीरइ असंखिज्जाहिं उस्सप्पिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org