________________
४१८
अनुयोगद्वार-चूलिकासूत्रं याणि मुक्तौदारिकवद्वाच्यानि, आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपुर्वधरसम्भवित्वात्तबन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः, तैजसकार्मणानि तु बद्धानि मुक्तानि च यथेषामेव वैक्रियाणि तथा वक्तव्यानि। उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह
'असुरकुमाराणं भंते!'इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकत्वात् प्रस्तुतशरीरोण्यपि स्तोकान्यतो विष्कम्भसूच्यां विशेषः, सा चेयं-'तासिणं सेढीणं विक्खंभसूई'त्यादि, तासाम्-अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः-विस्तरणश्रेणिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागाः, इदमुक्तं भवति-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्खयेयभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्ते इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनारकाणां केवला (अ) सुरकुमारा इति, आहारकाणि नारकदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः ।
मू.(२९९ वर्तते) पुढविकाइयाणं भंते ! केवइया ओरालिअसरीरा पं०?, गो०! दुविहां पनत्ता, तंजहा-बद्धलया य मुक्केल्लया य, एवं जहा ओहिआ ओरालिअसरीरा तहा भा०, पुढविका० केवइया वेउविअसरीरा पं०?, गो० ! दुविहा पनत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया ते नंत्थि, मुक्केल्लया जहा ओहिआणं ओरालिअसरीरातहा भा०, आहारगसरीरावि एवं चेव भाणियव्वा, तेअगकम्मसरीरा जहा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सबसरीरा भाणियव्वा।
वाउकाइयाणं भंते! केवइया ओरालिअसरीरा पं०?, गो०! दुविहा पन्नत्ता, तंजहा-बद्धेल्या य मुक्केल्लया य, जहा पुढविकाइयाणं ओरालिअसरीरा तहा भाणिअव्वा, वाउकाइयाणं भंते ! केवइया वेउव्विअसरीरा पं०?, गो०! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया तेनं असंखिज्जा समए र अवहीरमाणा र खेतपलिओवमस्स असंखिज्जइभागमेतेणं कालेणं अवहीरंति नो चेवनं अवहिआ सिआ, मुक्केलया वेउबिअसरीरा य जहा पुढविकाइयाणं तहा भाणिअव्वा, तेअगकम्मसरोरा जहा पुढविकाइयाणं तहा भाणिअव्वा,
वणस्सइकायाणं भंते ! केवइया तेअगसरीरा पं०?, गो० ! दुविहा पत्रत्ता, जहा ओहिआ तेगकम्मसरीरा तहा वणस्सइकाइयाणवि तेअगकम्मसरीरा भाणिअव्वा।
वृ.औदारिकाणि बद्धानि मुक्तानिचात्रौधिकौदारिकवद्वाच्यानि, केवलंयदोधिकबद्धानामसङ्घयेयप्रमाणत्वमुक्तं तदिह लघुतरासङ्घयेयकेन द्रष्टव्यं, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्, अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः, वैक्रियाहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु संभवन्ति, तानि तु मुक्तौधिकौदारिकवदभिधानीयानि, तैजसकार्मणान्यत्रैवोक्तौदारिकवदृश्यानि, एवमपूकायिकतेजःकायि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org