________________
मूलं-२०४ ललतीव यत् सुकुमालं तत् सुललितम् ८, एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु वडिम्बनामात्रमेव तदिति।।
कि चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति तानाह-'उर' गाहा, चकारो गेयगुणान्तरसमुच्चार्थः, उर:कण्ठशिरोविशुद्धं च, अयमर्थः-यधुरसि स्वरो विशालस्तुर्युरोविशुद्धं, कण्ठे यदि स्वरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं शिरसि प्राप्तो यदि नानुनासिकस्ततः शिसेविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुर:कण्ठशिरोविशुद्धं, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिष्टुरेण स्वरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तत् घोलनाबहुलं रिङ्गितं, गेयपदैर्बद्धं-विशिष्टविरचनाया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडुक्खेवं ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपकारकातोद्यानां ध्वनिः प्रत्युत्क्षेप: नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'सत्तस्सरसीभरं'ति सप्त स्वराः सीमरन्ति-अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरंगीतमिति, ते चामी सस स्वरा:___ 'अक्खरसमं गाहा, यत्र दीर्घ अक्षरे दो? गीतस्वरः क्रियते हुस्वे हुस्वः प्लुते प्लुतः सानुनासिके तु सानुनासिक: तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसम, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसम, शृङ्गदार्वाद्यन्यतरवस्तुमयेनांगुलीकोशकेन समाहते तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसमं, प्रथमतो वंशतन्त्रादिभिर्यः स्त्रो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसम, नि:श्वसितोच्छसितमानमनतिक्रमतो यद्गेयं तन्निःश्वसितोच्चसितसम, वंशतन्त्र्यादिध्वेवांगुलीसञ्चारसमं यद्गीयते तत्सञ्चारसमम्।
एवमेते स्वराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्तस्वरा अक्षरादिभिः समा दर्शिता भवन्तीति।
गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह-'निद्दोस'मित्यादि, तत्र 'अलियमुवघायजणय'मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषं १ विशिष्टार्थयुक्तं सारवत् २ गीतनिबद्धार्थगमकहेतुयुक्ततया हब्धं हेतुयुक्तम् ३ उपमाद्यलङ्कारयुक्तमलंकृतम् ४ उपसंहारोपनययुक्तमुपनीतम् ५ अनिष्ठुराविरुद्धालञ्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् ६ अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं ७ मधुरं श्रव्यशब्दार्थ ८ गेयं भवतीति शेषः ।
"तिनि य वित्ताई'ति यदुक्तं, तत्राह-'सम'मित्यादि, यत्र वृत्ते चतुर्वपि पादेषु सङ्घयया समान्यक्षराणि भवन्ति तत्सम, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसंख्यासमत्वं तदर्द्धसमं, यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्घयावैषम्योपेतं तद्विषमं, 'जति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येमिदमिति । 'दुन्निय भणिईओ'त्ति यदुक्तं तत्राह-'सक्काए'त्यादि, भणितिर्भाषा स्वरमण्डले-षड्जादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org