SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखिज्जाणिवा जोयनाई जानइ पासइ, पासओ अंतगरणं पासओ चेव संखिज्जाणि वा असंखिज्जाणि वा जोयनाई जाणइ पासइ, मज्झगएणं ओहिनाणेणं सबओ समंता संखिज्जाणि वा असंखिज्जाणिवा जोअणाई जाणइ पासइ, सेतं अनुगामिअंओहिनाणं। वृ.अन्तगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेष:?-प्रतिनियतो विशेष:?. सरिराहपुरतोऽन्तगतेनावधिज्ञानेन पुरत एव-अग्रत एव सङ्घयेयानि-एकादीनि शीर्षग्रहेलिकापर्यन्तानि असङ्खयेयानि वा योजनानि, एतावत्सु योजनेष्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतोऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सवओ समंता' इति सर्वतः-सर्वासु दिग्विदिक्षु समन्तात्-सर्वैरेवात्मप्रदेशेः सर्वैर्वा विशुद्धस्पर्द्धकैः, उक्तं च चूर्णी__ "सव्वउत्ति सव्वासु दिसिविदिसासु, समंता इति सव्वायप्पएसेसु सव्वेसुवा विसुद्धिफड्डेगसु" इति, अत्र 'सव्वायप्पएसेसु' इत्यादिस्तृ(त्यत्रत)तीयार्थे सप्तमी, भवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः स्वप्राकृतलक्षणे-व्यत्ययोऽप्यासा'मित्यत्र सूत्रे, तृतीयार्थे सप्तमी यथा-'तिसु तेसु अलंकिया पुहवि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता, शेषं तथैव___ अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चामन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं, तथा चोक्तं प्रज्ञापनायां-"नेरइयाणं भंते ! कि देसोही सव्वोही?, गोयमा! नो देसोही सव्वोही, एवं जाव थणियकुमाराणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही न सव्योही। मनुस्साणं पुच्छा, गोयमा! देसोहीवि सव्वोहीवि। वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं" वक्ष्यति च __ "नेरइय देव तित्थंकरा य ओहिस्सऽबाहिरा होति। पासंति सव्वओ खलु सेसा देसेण पासंति।" देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभववर्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्तौ तस्य व्यवच्छेदात्, ननु सङ्घयेयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि पश्यन्तीति?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि-केचिदंगुलासङ्घयेयभागं केचिदंगुलं केचिद्वितस्ति यावत्केचित् सङ्खयेयानि योजानानि केचिदसङ्खयेयानि, मनुष्यास्तु केचित् परिपूर्ण लोकं, केचिदलोकेऽपि लोकमात्राणि असंख्येयानि खण्डानि, ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणा: ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्षतश्चत्वारि गव्यूतानि १, शर्करप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि २, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि ३, पङ्कप्रभानारका जघन्येनैकं गव्यूतमुत्कर्षतः सार्धं गव्यूतं ६, तमतमः-प्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy