________________
मूलं - ६२
८३
चशब्दो देशकालाद्यपेक्षया स्वगतानेक भेदसूचकः, तथा 'मध्यगतं चे 'ति इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं - स्थितं मध्यगतं इदं च स्पर्द्धकरूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्त्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णौ-" ओरालियसरीरमज्झे फड्डगविसुद्धीओ सव्वायप्पएसविसुद्धीओ वा सर्वादिसोवलम्भत्तणओ मज्झगउत्ति भन्नति" अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्त्तित्वात्, आह च चूष्णिकृत- "अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मझगउत्ति, अतो वा मज्झगओ ओही भन्नइ" इति चशब्दः स्वगतानेक भेदसूचक:-अथ किं तदन्तगतं ?, अन्तगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञतम्, तद्यथा-तत्र 'पुरतः ' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागेऽन्तगतं पुरतो ऽन्तगतं, तथा मार्गतः - पृष्ठन्तः अन्तगतं मार्गतो ऽन्तगतं, तथा पार्श्वतोर्द्वयोः पार्श्वयोरेकतरपार्श्वतो वाऽन्तगतं पार्श्वतोऽन्तगतं ।
अथ किं तत्पुरतो ऽन्तगतं ?, 'से जहा' इत्यादि 'स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेष्वपि पदेष्वेकारान्तत्वम् ' अतः सौ पुंसी 'ति मागधिक भाषालक्षणात्, सर्वमपि हि प्रवचनमर्द्धमागधिकभाषात्मकम्, अर्द्धमागधिक भाषया तीर्थकृतां देशनाप्रवृत्तेः, तत: प्राय: सर्वत्रापि मागधिक भाषालक्षणमनुसरणीयं ।
'उक्का चेति' उल्का - दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, चटुली वा चटुली : - पर्यन्तज्वलिततृणपूलिका 'अलातं वा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठामित्यर्थः, 'मणिर्वा' मणि:प्रतीतः, ‘ज्योतिर्वा' ज्यतोःि शरावाद्याधारो ज्वलन्नग्निः, आह च चूणिकृत - "जोइत्ति मल्लगाइठिओ अगनी जलंतो' इति, 'प्रदीपं वा' प्रदीप- प्रतीतः 'पुरत: ' अग्रतो हस्ते दण्डादौ वा कृत्वा 'पणोल्लेमाणोत्ति' प्रणुदन् २ हस्तस्थितं वा क्रमेण स्वगत्यनुसारतः प्रेरयन् २ 'गच्छेत्' यायात्, एष दृष्टान्तः, उपनयस्तु स्वयमेव भावनीयः, तत उपसंहारः-' से तं पुरओ अंतगयं' सेशब्दः प्रतिवचनोपसंहारदर्शने, तदेतत् पुरतो ऽन्तगतं, इयमत्र भावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतो ऽन्तगतमभिधीयते । एवं मार्गतोऽन्तर्गतपार्श्वतोऽन्तगतसूत्रं भावनीयं, नवरं 'अनुकड्डेमाणे अनुकड्डेमाणे 'त्ति हस्तगतं दण्डानादिस्थितं वा अनुपश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् २ इत्यर्थः !
तथा 'पासओ परिकड्डेमाणे 'त्ति पार्श्वतो दक्षिणपार्श्वतोऽथवा वामपार्श्वतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन पार्श्वभागे कृत्वा समाकर्षन् समाकर्षन्नित्यर्थः - निगदसिद्धं नवरं 'मस्तके' शिरसि कृत्वा गच्छेत् तदेत्त मध्यगतं, इयमत्र भावनायथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति । इत्थम्भूतां च व्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति
मू. ( ( ६२ वर्तते एव) अंतगयस्स मज्झरायस्स य को पइविसेसो ?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मग्गओ
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org