SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मूलं-६२ "रयणप्पभापुढविनेरइया णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोअमा! जहश्रेणं अद्भुट्टाई गाउयाइं जाणंति पासंति उक्कोसेणं चत्तारि गाउआई जाणंति पासंति, सक्करप्पभापुढविनेरइयाणं पुच्छा, गोअमा! जहन्त्रेणं अड्डाइज्जाई गाउआई उक्कोसेणं तिन्नि गाउआई जाणंति पासंति, पंकप्पभापुढविनेरइया णं पुच्छा, गोयमा! जहन्नेणं दोन्नि गाउइयाइं उक्कोसेणं अड्डाइज्जाई गाउयाई जाणंति पासंति, धूमप्पभापुढविनरइया णं पुच्छा, गोअमा ! जहन्नेणं दिवटुं गाउयं उक्कोसेणं दो गाऊआइं जाणंति पासंति, तमापुढविनेरइया णं पुच्छा, गोअमा! जहन्नेणं गाउयं उक्कोसेणं दिवढं गाउयं जाणंति पासंति, अह सत्तमपढविनेरइया णं भंते ! पुच्छा, गोयमा ! जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति।। __ असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविशंतियोजानि जानान्ति पश्यन्ति उत्कर्षतोऽसंख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनिकुमारपर्यन्ता जघन्यतः पञ्चविंशति योजनानि जानन्ति पश्यन्ति उत्कर्षत: सङ्कयेयान् द्वीसमुद्रान्, एवं व्यन्तरा अपि, तथा चोक्तम्-'असुरकुमारा णं भंते ! ओहिणा केवइयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्नेणं पणवीसंजोयणाई उक्कोसेणं असोज्जदीवसमुद्दे ओहिणा जाणंति पासंति, नागकुमारा णं पुच्छा, गोअमा! जहन्ननेणं पणवीसं जोयणाई उक्कोसेणं संखेज्जदीवसमुद्दे जाणंति पासंति, एवं जाव थणियकुमारा, वाणमंतरा जहा नागकुमारा" इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति येषामायुर्दशवर्षसहस्रप्रमाणं, न शेषाः, आह च भाष्यकृत"पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि"मिति। जयोतिष्यका: पुनर्देवा जघन्यतोऽपि सङ्खयेयान्द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्ष-तोऽपि संख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान्, यदाह-'जोइसिया णं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति?, जहन्नेणऽवि संखेज्जे उक्कोसेणवि संखेज्जे दीवसमुद्दे" सौधर्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघन्येनांगुलासंख्येयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रलप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावत्, तिर्यक्षुअसंख्येयान् द्वीपसमुद्रान्, ऊर्ध्वं तु स्वकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि। अत्राह-नन्वंगुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव, न शेषेषु, यत आह भाष्यकृत्स्वकृतभाष्यटीकायाम् 'उत्कृष्टो मनुष्येष्वेवे, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवे'ति, तत्कथमीहसर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवजः, ततो न कश्चिद्दोषः, आह च दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः "वेमाणीयाणमंगुलभागमसंखं जहन्नओ होइ(ओही)। उववाए परभविओ तब्भवजो होइ तो पच्छा॥" एव् सनत्कुमारादिदेवानामपि द्रष्टव्यम्, नवरमधोभागदर्शने विशेषः ततः स प्रदर्श्यतेसनत्कुमारमाहेन्द्रदेवाअधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रारकल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy