________________
७८
नन्दी-चूलिकासूत्रं स्थानकरसबन्धौ जलरेखासदृशैस्तु सञ्जवलनसंज्ञैरेकस्थानकरसबन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम्, नवरं द्विस्थानकादारभ्य, तथा चोक्तम्
"पव्वयभूमीवालुयजलरेहासरिस संपाराएसुं।
चउठाणाई असुभाण सेसयाणं तु वच्चासो।।" इति, 'शेषकाणां' शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः सच द्विस्थानकादारभ्य, यथोक्तं प्राक् । अथ कथमवसीयते? यदुत द्विस्थानकादारभ्य व्यत्यासो नैकस्थानकादारभ्य?, उच्यते, शुभप्रकृतीनामकस्थानकरसबन्धस्यासम्भवाद्, असम्भवः कथमिति चेद्, उच्यते, इहात्यन्तविशुद्धौ वर्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बन्धाति, ततो मन्दमन्दतरविशुद्धौ त्रिस्थानकं द्विस्थानकं वा, सङ्कलेशाद्धायां तु वर्तमानस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतः?, तस्यामवस्थायां तद्गतरसस्थानकचिन्तायामपि नरकगतिप्रायोग्यं बन्धतोऽतिसंक्लष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति तासामपि स्वभावतो द्विस्थानकरसस्यैव बन्धो नैकस्थानस्य, ततः शुभप्रकृतीनां व्यत्यासयोजना द्विस्थानकरसबन्धादारभ्य कर्त्तव्या, अथाशुभप्रकृतीनामेकस्थानकस्यापि रसस्य बन्धो भवतीति कथमवसेयम्?, उच्यते, इह द्विधा धातिन्योऽशुभप्रकृतयः, तद्यथा-सर्वधातिन्यो देशधातिन्यश्च, तत्र याः सर्वधातिन्यः तासां जघन्यपदेऽपि द्विस्थानक एव रसो बन्धमायाति, नैकस्थानकः, तथास्वाभाव्यात्,
तथाहि-क्षपक श्रेण्यारोहेऽपिसूक्ष्मसम्परायगुणस्थानकचरमसमयेऽपिवर्त्तमानस्य केवलज्ञानावरणकेवलदर्शनावरणयोः रसबन्धो द्विस्थानक एवेति, नैकस्थानकः, यास्तु देशधातिन्यः तासां श्रेण्यारोहाभावे बन्धमागतानां नियमात्सर्वधातिनमेवरसंबन्धाति, यत उक्तं कर्मप्रकृतौ"असेढिगा य बंधंति उसवधाईणि" सर्वघाती चरसो जघन्यपदेऽपिद्विस्थानको 'दुट्ठाणियाणि मीसाणि देसघाईणि सेसाणोति'वचनात्, ततो न श्रेण्यारोहाभावे तासामेकस्थानकरसबन्धसम्भवः, श्रेण्यारोहे त्वनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाः सङ्ख्येयेषु भागेषुगतेषु सत्सुतत ऊर्ध्वमेकस्थानकरसबन्धसम्भवः, तदानीं च ज्ञानावरणचतुष्टयदर्शननावरणत्रयपुरुषवेदान्तरायपञ्चकसञ्जवलनचतुष्टयरूपा: सप्तदश प्रकृतीर्व्यतिरिच्यशेषा बन्धमेव नायान्ति, तद्बन्धहेतुव्ययच्छेदात्, ततो न तासामेकस्थानकरसबन्धसम्भवः, सप्तदशानां तु प्रकृतीनां तदा बन्धसम्भवादेकस्थानको रसबन्धः प्राप्यते, उक्तं च
"आवरणमसव्वग्धं पुंसंजलणंतरायपयडीओ।
चउठाणपरिणयाओ दुतिचउठाणाउसेसाओ।" अत्र 'चउठाणपरिणयाउ'त्ति एकस्थानकपरिणता द्विस्थानकपरिणताः त्रिस्थानकपरिणताश्चःस्थानकपरिणताश्चेत्यर्थः, शेष सुगम, ततः सप्तदशप्रकृतिनामकस्थानकरसबन्धसम्भवात् तदपेक्षयाऽशुभप्रकृतीनामेकस्थानकरसबन्धादारभ्य योजना कृता, सर्वघातीनि चरसस्पर्द्धकानि सकलमपि स्वधात्यं ज्ञानादिगुणमुपघ्नन्ति, तानिच स्वरूपेण ताम्रभाजनवनिश्छिद्राणि धृतमिवातिशयेन स्निग्धानि द्राक्षेव तनुप्रदेशोपचितानि स्फटिकाभ्रकहावच्चातीव निर्मलानि, उक्तं च
"जो धाएइ सविसयं सयलं सो होइ सव्वघाइरसो। सोनिच्छद्दो निद्धो तणुओ फलिहब्भहरविमलो।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org