________________
मूलं-६०
यानि च देशधातीनि रसस्पर्द्धकानितानि स्वधात्यं ज्ञानादिगुणं देशतो ध्वन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात्. तानि च स्वरूपेणानेकविधविवरसंकुलानि, तथाहि-कानिचित्कट इवातिस्थूरच्छिद्रशतसंकुलानि, कानिचित्, कम्बल इव मध्यमविवरशतसंकुलानि, कानिचित्पुनरतिसूक्ष्मविवरसंकुलानि, यथा वासांसि, तथा तानि देशधातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च, उक्तं च
"देसविघाइत्तणओ इयरो कडकंबलंसुसंकासो।
विविहच्छिद्दुहभरिओ अप्पसिनेहो अविमलो अ॥" अघातिनीनां तु रसस्पर्द्धकानि स्वरूपेण न सर्वधातीनि नापि देशधातीनि, केवलं सर्वघातिरसस्पर्द्धकसङ्घर्पतः सर्वधातिरससदृशानि भवन्ति, यथा स्वयमचौरा इति(अपि) चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च
__ "जाण न विसओ घाइत्तणंमि ताणंपिसव्वघाइरसो।
जायइ घाइसगासेण चोरया वेहऽचोराणं॥" तदेवमुक्तानि सर्वघातीनि देशघातीनि च रसस्पर्द्ध कानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते-तत्र देशघातिनीनां मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि कर्तुं शक्यन्ते, तथास्वाभाव्यात्, कथमेतदवसेयमिति चेत्?, उच्यते, इह यदि बन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि, तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, मत्यादीनि ज्ञानानि क्षायोपशमिकाणी __यदुक्तमनुयोगद्वारेषु-"खओवसमिया आभिनिबोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्द्धकानामुदये भवति, न सर्वघातिनां, देशघातीनी च रसस्पर्धकानि बन्धमधिकृत्यानिवृत्तिबादरसम्पराद्धायाः सङ्खयेयेषु भागेषु गतेषु सत्सुतत ऊर्वं प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाकोदयभावतः तेषां क्षयोपशमासम्भवाद, अथ च मतिज्ञानादिबलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषवैवस्वतमुखोपनिपतित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्धकानां, देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिबादरसम्पराद्धायां, ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते, ततोऽवश्यमेतदुरीकर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथयथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरणकेवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते?, उच्यते, तथास्वाभाव्यात्,
तथाहि-तथारूपा एव ते पुद्गला: केवलज्ञानकेवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयविष्कम्भभाञ्जि, तथास्वाभाव्याद्, एतच्चावसीयते तथाकार्यदर्शनात्, तथाहि-सम्यक्त्वसम्यग्मिथ्यात्वदेशविरतिसामायिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org