SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मूलं-६० ७७ मिक मेव, केवलं सक्षयोपशमो देवनारकभवप्ववश्यंभावी, पक्षिणां गगनगमनलब्धिरिव, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णी-"ननु ओही खाओवसमिए भावे नारगाइभवो से उदइए भावे तओ कहं भवपच्चइओ भण्णइ?, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ, को दिटुंतो?, पक्खीणं आगासगमणं व, तओ भवपञ्चइओ भन्नइ"त्ति। तथा द्वयोः क्षायोपशमिकं, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिजानां च, अत्रापि चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपणमिकं । सम्प्रति क्षायोपशमिकस्वरूपं प्रतिपादयति-'को हेतुः?' किं निमित्तं यदशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, तत्र निर्वचनमभिधातुकाम आह-क्षायोपशमिकं येन करणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीनां क्षयेण अनुदीनामउदयावलिकामप्राप्तानामुपशमेन-विपाकोदयविष्कम्भलक्षणेनावधिज्ञानमुत्पद्यते, तेन कारणेन क्षायोपशमिकमित्युच्यते, क्षयोपशमश्च देशधातिरसस्पर्द्धकानामुदये सति भवति न सर्वधातिरसस्पर्द्धकानाम्, अथ किमिदं देशघातीनि सर्वघातीनि वा रसस्पर्धकानीति?, उच्यते, इह कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकस्वरूपं च कर्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दय॑ते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वधातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वधातीनि, देशधातिनीनां पुनः कानिचित्त सर्वघातीनि कानिचिद्देशधातीनि, तत्र यानि चतुःस्थानकानि त्रिस्थानकानि वा रसस्पर्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशधातीनि कानिचित्सर्वधातीनि, एकस्थानकानि तु सर्वाण्यपि देशधातीन्येव, उक्तंच "चउतिट्ठाणरसाणि य सवधाईणि होति फड्ढाणि । दुट्ठाणियाणि मीसाणि देसघाईणि सेसाणि॥" अथ किमिदं रसस्य चतुःस्थानकत्रिस्थानकत्वादि?, उच्यते, इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बधोषातक्यादिरसोपमः, उक्तं च -'घोसाडइनिंबुवमो असुभाण सुभाण खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एक: कर्षक: स द्विस्थानकः, त्रयाणां कर्पाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्यः त्रिस्थानकः, चतुर्णां कर्षणामावर्त्तने कृते सति उद्धरति य एकः कर्षः स चतुःस्थानकः, एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकाधुचुलुकप्रसृत्यज्जलिकरककुम्भद्रोणादिप्रक्षेपात्मन्दमन्दतरादिबहुभेदत्वंप्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः प्रत्येकमनन्तभेवभाजश्च, कर्मणां चैकस्थानकादयो रसा: यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च____ "अनंतगुणिया कमेणिरे" तत्राशुभप्रकृतीनां चतुःस्थानकरसबन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिको धादिकैः क्रियते दिनकरातपशोषिततडागभूरेखासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy