________________
मूलं-५३
____ आवरणसवविगमे कह ताइ न होंति जीवस्स? ॥" उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरूपजायते, सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगम: तावद्याथा यथा देशतः कर्मकलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथश्चिदित्यनेकप्रकारा, उक्तं च
__ "मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः।।" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम्
"यथा जात्यस्य रत्नस्य, नि:शेषमलहानितः।
स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः।" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं ननु सकलमपीदं ज्ञानं ज्ञाप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्त्तमानिकं वस्त्वाभिनिबोधकज्ञानस्यज्ञेयं, त्रिकालसाधारण: समानपरिणामो ध्वनिर्गोचर: श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनः-पर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनम्, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तः, __तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद, अविषयत्वात्, तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः,आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येतप्रतिपत्तिप्रकारभेद आभिनिबोधिकादिभेदः,
तथाहि-न यादृशी प्रतिपात्तिराभिनिबोधकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम्, ततो भवत्येन प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम्, एवं सत्येकस्मिन्त्रापि ज्ञानेऽनेकभेदप्रसक्तेः, तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपाद्यते, तन्नैषोऽपि पक्षः श्रेयान्, स्यादेतद्-अस्त्यावारकं कर्मा, तच्चानेकप्रकारं, ततः तद्भेदात् तदावार्यं ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात्, ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसङ्गतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवार्यं चज्ञप्तिरूपापेक्षया सकलमप्येक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org