________________
नन्दी-चूलिकासूत्रं रूपं, ततः कथमावारकस्य पञ्चरूपता?, येन तद्भेदात्, ज्ञानस्यापि पञ्चविधो भेदः उद्गीर्येत, अथस्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते, न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुपी, ननु यदि स्वभावत एवाभिनिबोधादिको ज्ञानस्य भेदस्तहि भगवतः सर्वज्ञत्वहानिप्रसङ्गः, तथाहि___ ज्ञानमात्मनो धर्मः, तस्य चाभिनिबोधादिको भेद: स्वभावत एव व्यवस्थितः, क्षीणावरणस्यापि तद्भावप्रसङ्गः, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञानभावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, यदा त्वामिनिबोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादसमादृस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते, न च वाच्यं-तस्य तदुपयोग एव न भविष्यति, आत्मस्वभावत्वेन तस्यापिक्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानंतरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते, तच्च विरुद्धमतोऽनिष्ठिमिति, आह च
नत्तेगसहावत्ते आभिनिबोहाइ किंकओ भेदो?।। नेयविसेसाओ चे न सव्वविसयं जओ चरिमं ।। अह पडिवत्तिविसेसा नेगंमि अनेगभेयभावाओ। आवरणविभेओवि हु सभावमेयं विना न भवे ॥ तम्मि य सइ सव्वेसिं खीणावरणस्स पावई भाव।
तद्धम्मत्ताउच्चिय जुत्तिविरोहा स चानिट्ठो॥ अरहावि असपन्नू आभिनिबोहाइभावओ नियमा।
केवलभावाओ चे सव्वण्णू ननु विरुद्धमिणं। तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तच्चासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात्, अपरं च केवलिनः, तच्च सकलसंज्ञितमिति द्वावेव भेदौ, उक्तं च- ।
'तम्हा अवग्गहाओ आरब्भ इहेगमेव नाणन्ति।
जुत्तं छउमत्थस्सासगलं इयरं च केवलिणो।' अत्र प्रतिविधीयते, तत्र यत्तावदुक्तं-'सकलमपीदंज्ञानं, ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधादिको भेद इति?' तत्र ज्ञप्त्येकस्वभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा?, तत्र त तावदाद्यः, पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव, ततः का नो हानिरिति। अथ द्वितीयपक्षः, तदयुक्तम्, असिद्धत्वात्, न हि नाम विशेषतो विज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यद्युत्कर्षापकर्षमात्रभेददर्शनात् ज्ञानभेद: तर्हि तावुत्कर्षापकर्षों प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्त्रशोभिद्येते, ततः कथं पञ्चरूपता?, नैष दोषः, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात्, तथाहि-सकलधातिक्षयो निमित्तं केवलज्ञानस्य मन:पर्यायज्ञानस्य त्वामर्षोषध्यादिलब्ध्यपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org