________________
नन्दी-चूलिकासूत्रं सासनस्स हियट्टाए तओ सत्तं पवत्तइ।।" एतेन स्वमनीषिकाव्युदासमहा, अथवा प्रज्ञा-वृद्धि: तया आप्त-प्राप्तं तीर्थकरगणधरैरिति गम्यते, प्रज्ञाप्तं, किमुक्तं भवति?-'सर्व वाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थः-ज्ञानं तीर्थकरैरपिसकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्चविधमेव प्राप्त, गणधरैरपि तीर्थकृभिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्त, नत वक्ष्यमाणनीत्या द्विभेदमेवेति, अथवा प्राज्ञात-तीर्थकरदाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैरासं प्राज्ञाप्तं, तीर्थकरादित्यनुमीयते,
'तद्यथे' त्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मन:पर्यायज्ञानं केवलज्ञानं, तत्रार्धाभिमुखो नियतः-- प्रतिनियतस्वरूपो बोधी-बोधविशेषोऽभिनिबोधः (अभिनिबोध) एवाभिनिबोधकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमाद् 'विनयादिभ्य' इत्यनेन स्वार्थे इकणप्रत्ययः 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी तिवचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोधः-तदावरणकर्मक्षयोपशम:, तेन निवृत्तमाभिनिबोधकं, आर्भािनबोधकं च तद् ज्ञानंच आभिनिबोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः १,
तथा श्रवणं श्रुतंवाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणेहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणाम: शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं २,
तथा अवशब्दोऽध:शब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधि:, अथवा अवधिर्मयादा रूपविष्वेवद्व्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं ३,
तथा परिः-सर्वतोभावे अवनंअव: 'तुदादिभ्यो न क्वा' वित्यधिकारे अकतौचे' त्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यव:-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मन:पर्ययः, सर्वतस्तत्परिदच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मन:पर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येतिसर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽणि ति अण्प्रत्ययः, मन:पर्यायं च तज्ज्ञानं च मनःपर्याय(यज्ञानं), यद्वा मनसः पर्याया: मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं ४,
तथा केवलम् एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात्, ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च
"आवरणदेसविगमे जाइवि जायंति मईसुयाईणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org