________________
मूलं - ५०
दोपान् वर्जयति, सतोऽपि न गृह्णातीत्यगुणवर्जा ।
तथा 'अज्ञिका' अज्ञिका ज्ञिकाविलक्षणा, सम्यक्परिज्ञानरहिता, किमुक्तं भवति ? - या ताम्रचूडकण्ठीरवकुरङ्गपोतवत्प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तविशिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका, उक्तं च
"पगईमुद्ध अयाणिय मिगछावगसीहकुक्कुडग भूया । रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥"
इह 'मिगसावगसीहकुक्कुडगभूय'त्ति सावगशब्दोऽग्रे सम्बध्यते, ततो मृगसिंहकुर्कुटशावभूता इत्यर्थः 'असंठविय'त्ति असंस्थापिता, असंस्कृता इत्यर्थः, सुखेन प्रज्ञापनीया । तथामू. (५१) दुविअड्डा जहा - मू. (५२)
नय कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वfत्थव्व वायपुण्णो फुट्टइ गामिल्लयविअड्डो ||
वृ. 'दुर्विदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति ? - या तत्तगुणज्ञपाश्वपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायामभिमानतो ऽवज्ञया पश्यति, अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं च
"किञ्चिम्मत्तग्गाही पल्लवगाही य तुरियगाही य ।
दुवियाड्डिया उएसा भणिया तिविहा भवे परिसा ॥ "
अमूषां च तिसृणां पर्षदां मध्ये आद्ये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्वयोग्या, यदाह चूर्णिणकृत्एत्थ जाणिया अजाणिया य अरिहा, दुव्विअड्डा अणरिहा" इति, तत आद्ये एव द्वे अधिकृत्यानुयोगः प्रारम्भणीयो, नतु दुर्विदग्धां मा भूदाचार्यस्य निष्फलः परिश्रमः, तस्याश्च दुस्तसंसारोपनिपातः. साहितथास्वाभाव्यात् यत्किमप्यर्थपदं शृणोति, तदप्यवज्ञया श्रुत्वा च सारपदमन्यत्र सर्वजनातिशायिनिजपाण्डित्याभिमानतो महतो महीयसो ऽवमन्यते, तदवज्ञया च दुरन्तसंसाराभिष्वङ्ग इति स्थितम् । तदेवभीष्टदेवतास्तवादिसम्पादितसकलसौहित्यो भगवान् दूष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थ धारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविपयस्य ज्ञानस्य प्ररूपणां विदधाति
६५
मू. (५३) नाणं पंचविहं पत्रत्तं, तंजहा- आभिनिबोहिअनाणं सुअनाणं ओहिनाणं मनपज्जवनाणं केवलनाणं ॥
वृ. ज्ञातिर्ज्ञानं, भावे अनट्प्रत्ययः, अथवा ज्ञायते - वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनट्, शेषास्तु व्युत्पत्तयो मन्दमतीनां सम्मोहहेतुत्वात्, नोपदिश्यन्ते, 'पञ्चे 'ति सङ्ख्यावाचकं विधानं विधा' उपसर्गादात' इत्यङ्प्रत्ययः, पञ्च विधा: - प्रकारा यस्य तत्पञ्चविधं पञ्चप्रकारं 'प्रज्ञप्तं ' प्ररूपितं तीर्थकरगणधरैरिति सामर्थ्यादवसीयते, अन्यस्य स्वयंप्ररूपकत्वेन प्ररूपणाऽसम्भवात् उक्तं च
30/5
Jain Education International
14
"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं ।
For Private & Personal Use Only
www.jainelibrary.org