________________
नन्दी-चूलिकासूत्र तषां भगवदाज्ञाविलोपतो गुर्वाशातनातश्चोपचिताशुभगुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्चएवं स वर्तमानो मतिमानपि श्रुतरत्नाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभश्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलापी सर्पमुखे स्वहस्तेन पयोबिन्दून प्रक्षिपतीति, स चैकान्तेनायोग्यः? प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीय, केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं २ कप्पर यथाशक्ति घृतं गृहीतवन्तौ, स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा-ही न मया घतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति-समपितस्त्वा सम्यक्, परं न स मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृतहानि पि सकाल एवान्यसार्थिकैः सहस्वग्राममभिसमर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथारूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमूक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यम्-वत्स! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनयेः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः ! किमन्यथा परूपयन्ति ?, केवलमहंमतिदौर्बल्यादन्यथाऽवगतवानिति, स चैकान्तेन योग्यः?,
एवंविधाश्च विनेया: प्रह्लादितगुरुमनसः श्रुतार्णवपारगामिनो जायन्ते, चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम्,
सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति
मू.(४७)सा समासओतिविहा पन्नत्ता, तंजहा-जाणिआ अजाणिआ दुविअड्डा, जाणिआ जहामू.(४८) खीरमिव जहाहंसा जे धुमृति इह गुरुगुणसमिद्धा।
दोई अविवज्जती तं जाणसु जाणिअंपरिसं। मू.(४९) अजाणिआ जहा-जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूआ।
रयणमिव असंठविआ अजाणिआसा भवे परिसा॥ वृ. 'सा' पर्षत् 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते इति चेत् ?, उच्यते, इह प्रागुक्तं-प्रारम्भणीय: प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते, निरालम्बनस्य तस्याभावात्, ततः सामर्थ्यात्सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथे'त्युदाहरणोपदर्शनार्थ, 'जाणिय'त्तिज्ञा अवबोधने' जानातीति ज्ञा, 'इगुपान्त्यप्रीकृगृज्ञ:' इति कप्रत्ययः, इति धातो लोप' इत्याकारलोपः, ततो अजाद्यत' इति स्त्रियामाप, जैव ज्ञिका, स्वार्थिकः कः प्रत्ययः, 'स्वज्ञाजभस्राधातुत्ययकादि'त्याप: स्थाने इकारादेशः, कप्रत्ययाच्च परतः स्त्रियामाप्, तत्सिद्धं ज्ञिकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति?-कुपथप्रवृत्तपाषण्डमतनादिग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयलवतीति, उक्तं च
"गुणदोसविसेसण्णू अनभिग्गहिया य कुस्सुइमएसुं।
एसा जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा।" तत्र 'गुणतत्तिल्लेति' गुणेषु यत्रवती गुणग्रहणपरायणा इत्यर्थः, अगुणवज्जि'त्ति अगुणान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org