________________
मूलं - ४६
६१
विनयादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति ॥
,
सम्प्रति भेरीदृष्टान्तभावना - इह शक्रादेशेन वैश्रवणयक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्द्धाधिपत्वमनुभवति केशवे कदाचिदशिवमुपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्त्रसंकुले सौधर्म्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौक:पर्युपास्यमानः शक्राभिधानो मधवा पुरुषगुणविचारणाधीकारे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षित्-अहो महानुभाव विष्णवो यद्दोषबहुलेऽपि वस्तुनि स्वभावतो गुणमेव गृह्णन्ति, न दोषलेशमपि न च नीचयुद्धे। युध्यन्ते इति, इत्थं च मधवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौका: परीक्षार्थमिहावतीर्य येन पथा भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले क्वचित् प्रदेशे समुत्रासितसकलजनमहादुरभिगन्धसंकुलमतीव दीप्यमानमहाकालिमकलितं विवृतमुखमुत्पादितश्वेतदनन्तपंक्ति गतप्राणमिव शुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोज्जयन्तगिरिसमवसृतभगवदरिष्टनेमिनमस्कृतये तेन पथा मन्तुं प्रववृतये, पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्रन्धसमुत्त्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु मारेभे ततः पुष्टं केशवेनकिमिति पुरोयायिनः सर्वे पिहितनासिकाः समुन्त्रासमादधते ?, ततः कोऽपि विदितवेद्यो विज्ञपयामास - देव! पुरो महापूतिगन्धिः श्वा मृतो वर्त्तते, तद्गन्धमसहमान: सर्वोऽपि त्रासमगमत्, केशवो महोत्तमतया तद्गन्धादनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तः, अवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलमपि तस्य रूपं ततो गुणप्रशंसामकर्तुमशक्नुवन् प्रशंसितुमारभते स्म - अहो जात्यमरकतमयभाजनविनिवेशितमुक्तामणिश्रेणिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्पद्धतिरिति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसद्मजन्मा चिन्तयामास - अहो यथोक्तं मधवता तथैवेति । • ततो दूर गते केशवे तद्रूपमुपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरनं सकललोकसमक्षमपहृतवान्, धावितश्च मार्गतः सर्वोऽप्युदीर्णखङ्गकुन्तादिरङ्गरक्षकादिपदातिवर्गः समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चायं व्यतिकरः केशवेन, प्रधाविताश्च सकोपं दिशोदिशं सर्वेऽपि कुमाराः मुञ्चन्ति च यथाशक्ति प्रहरान् परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्राप्तः केशवः पृष्टश्च तेनाश्वापहारी - भोः किं मदीयमश्वरत्नमपहरसि ?, तेनोक्तं शक्नोम्यपहर्तुं, यदि पुनरस्ति ते काऽपि शक्तिस्तर्हि मां युद्धे विनिर्जित्य परिगृहाण, ततः केशवः तत्पौरषरञ्जितमनस्कः सहर्षमेवमावदीत्भो 'महापुरुष ! येन युद्धेन ब्रूषे तेन युद्धेऽहं ततः सर्वाण्यपि युद्धानि केशवो नामग्रहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाण्यपि सुरसद्मजन्मा, ततो भूयः केशवो वदति--कथय केन युद्धेन युद्धेऽहमिति ?, ततः स प्राह-पुतयुद्धेन ततः कर्णौ पिधाय शल्यितहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमवादीत्-गच्छ गच्छाश्वरत्नमपि गृहीत्वा, नाहं नीचयुद्धेन युद्धे इति, तत एतत् श्रुत्वा हर्षवशोज्जृम्भितपुलकमालोपशोभितं वपुरादधानः सविस्मयं सुरसद्मजन्मा स्वचेतसि चिन्तयामास - अहो महोत्तमता केशवानाम्, अत एव शतसहस्तसङ्ख्यनमदमरकिरीटकोटी-सङ्घर्षमसृणीकृतंपादपीठानां मधवतामप्येते प्रशंसार्हाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org