________________
नन्दी-चूलिकासूत्र तत एवं चिन्तयित्वा सानन्दमवेक्षमाणो वक्तुं प्रवृत्तांभोः केशव! नाहमश्वापहारी, किन्तु त्वगुणपरीक्षानिमित्तमेवं कृतवान्, ततः सकलमपि शक्रप्रशंसादिकं प्रर्ववृत्तान्तमचकथत्, ततः स्वगुणप्रशंसाश्रवणलज्जितोऽवनतमनाकन्धरः कुङ्मलितकरसम्पुटो जनाईनः तमुदन्तपर्यत्ने मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हष्टमनास्तं प्रत्येवमवादीत्-महापुरुष! देवदर्शनममोघं मनुजजन्मनामिति प्रवाहो जगति प्रसिद्धो मा विफलतामापदिति वद किञ्चिदभीष्टं येन करोमीति, ततः केशवोऽब्रवीद्-वर्तते सम्प्रति द्वारवत्यामशिवं, ततस्तत्प्रतिविधानमातिष्ठ, येन भूयोऽपि न भवति, ततो गोशीर्षचन्दमयीमशिवोपशमिनी देवो भेरीमदात्, कल्पंचास्याः कथयामास-यथा षण्मासषण्मासपर्यन्ते निजाऽऽस्थानमण्डपे वाद्यैषा भेरी, शब्दश्चास्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेधध्वनिरिव गम्भीरो विजृम्भिष्यते, यश्च शब्दं श्रोष्यति तस्य प्राक्तनोव्याधिनियमतोऽपयास्यति, भावी च भूयः षण्मासादाक्न भविष्यति, ततः एवमुक्त्या देवः स्वस्थानमगमत् । वासुदेवोऽपि तां भेरीं सदैव भेरीताडननियुक्ताय समपितवान्, शिक्षां चास्मै ददौ यथा -
पण्मासषण्मासपर्यन्ते ममास्थानमण्डपे वाद्यैषा त्वया भेरी, यत्रतश्चावनीया, ततः सकलस्वलोकसामन्तादिबलसमन्वितो निजप्रासादमायासीत्, मुत्कालितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिवसहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानस्तां भेरीमताडयत्, भेरीशब्दश्रवणसमनन्तरमेव च दिनपतिकरनिकरताडितमन्धकारमिव द्वारवतीपुरिसकलमपि रोगजालं विध्वंसमुपागमत्, ततः प्रमुदितः सर्वोऽपि पौरलोकः, आशास्ते च सदैवाधिपतित्वेन जनाईनं, तत एवं व्याधिविकले गच्छति काले कोऽपिदूरदेशान्तरवर्ती धानढ्य महारोगाभिभूतो भेरीशब्दमाहात्म्यमाकर्ण्यद्वारवतीमगमत्, सदैवविनियोगाभ्देरीताडनदिवसातिक्रमे प्राप्तः, ततोऽचिन्तयत्__ कथमिदानीमहं भविष्यामि ?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिश्च मासैरेष प्रवर्द्धमानो व्याधिरसूनपिनियमात् कवलयिष्यति, ततः किं करोमीति?,ततः इत्थं कतिपयदिनानि चिन्ताशोकसागरनिमग्नः कथमपि शेमुषीपोतमासाद्योन्मंक्तु लग्नो-यथा यदितस्याः शब्दतोऽपि रोगोऽपयाति ततः तदेकदेशस्य धर्षित्वा पाने सुतरामपयास्यति, प्रभूतं च मे स्वं, ततः प्रलोभयामि धनेन ढाक्तिकं, येन तच्छकलमेकं मे समर्पयति, ततः प्रलोभितो धनेन ढाकिको, नीचसत्त्वा हि दुष्टदारा इव निरन्तरंधनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः, ततस्तेन तच्छकलमेकं तस्मै व्यतिरिष्ट, तत्स्थाने च तस्यामन्यच्छकलंयोजितम्, एवमन्यान्यदेशान्तरायातरोगिजनेभ्यो धनलुब्धतया खण्डखण्डप्रदाने सकलापि भेरी कन्थेव खण्डसङ्घातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेवाशिवंप्रावतिष्ट, समस्थितश्च रावोऽशिवप्रादर्भावविषयः पौरजनाना, विज्ञप्तश्च महत्तरैर्जनाईनो- देव! भूयोऽपि विजृम्भते वर्षासु कृष्णशर्वर्यामन्धकारमिव पुरिद्वारवत्यां महदशिवं, तत: प्रातरास्थानमण्डपे सिंहासने समुपविशयाकारितो भेरीताडननियुक्तः पुमान्, दत्तश्चादेशोऽस्मै भेरीताडने, ततस्ताडिता तेन भेरी, साऽपगतदिव्यप्रभावान भांकाराशब्देनास्थानमण्डपमात्रमपि पूरयति, ततो विस्मितो जनाईनो-यथा किमेषा नास्थानमण्डपमपि भाङ्कारशब्देन पूरयितुं शक्तवती?, ततः स्वयं निभालयामासतां भेरी, दृष्टा च सामहादरिद्रकन्थेव लघुलघुतरश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org