________________
नन्दी-चूलिकासूत्रं लेदि, तथा शिष्योऽपि यः पूर्वं गृहीतं सूत्रमर्थं वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति, स जाहकसमानः, सच योग्यः ।।
सम्प्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्थ्यश्चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता, ततः ते परस्परमेवं चिन्तयामासुः-यथेयमेका गौश्चतुर्णामस्काकं ततः कथं कर्त्तव्या?, तत्रैकनोक्तं-परिपाट्य दह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं-यथाऽमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, ततः किं निरथिकामस्याश्चार्रवहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेरपी, ततः सा श्वपाककुलनिपतितेत्र तृणसलिलादिविरहिता गतासुरभूत, ततः समुत्थितः तेषां धिगंजातोयानामवर्णवादो लोक शेषगोदानादिलाभव्यवच्छेदश्च, एवं शिष्या अपि ये चिन्तयन्ति-न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि, ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति?, प्रातीच्छिका अप्येवं चिन्तन्ति-निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति ?, ततस्तेषामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थों, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्या दृष्टव्याः, उक्तं च
"अन्नो दुज्जिहि कल्लं निरत्थयं से वहामि किं चारि?| चउचरणगविउ मया अवण्ण हानी उ बडुआणं ।।१।। सीसा पडिच्छिगाणं भरोत्ति तेऽवि हु सीसगभरोत्ति!
न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ॥२॥" एष एव गोदृष्टान्तः प्रतिपेक्षाऽपि योजनीयः, यथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुभ्यं-- चतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपि च पूर्ववत्परिपाट्य दोग्धुमारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-यद्यहमस्याश्चारिंन दास्यामि तत: क्षुधा धातुक्षयादेषा प्राणानपहास्यति, ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शरैरपि ब्राह्मणै|क्ष्यते ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्य पुनरप्येनां धोक्ष्यामि, ततोऽवश्यमस्ये दातव्या चारिरिति ददौ चारि, एवं शेषा अपि ददुः, ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहारभाजिनो जाता: लोकेऽपि समच्छलितः साधुवादो, लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं योऽपि विनेयाश्चिन्तयन्ति-यदिवयमाचार्यस्य न किमपि विनयादिकं विधातारः तत एषोऽवसीदन्नावश्यमपगतासुभविष्यति, लोके च कुशिष्या एते इत्यवर्णवादो विजृम्भिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे, अपि चअस्माकमेष प्रव्रज्याशिक्षावतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्त्तव्यम्, अन्यच्च-यद्यस्मदीयविनयादिसहायकबलेन प्रातीच्छिकानामप्याचार्यत उपकार: किमस्माभिर्न लब्धम ?, द्विगुणतरपुण्यलाभश्चास्माकं भवेत्, प्रातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्वो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विदधाति?, ततः किमेतेषां वयं प्रत्युपकर्तुं शक्ता:?, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org