________________
मूलं-४६ तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूर्णकसमानः, स चायोग्य, आह च आवश्यकचूणिकृत
- "वक्खाणाइसु दोसे हिययंमि ठवेइ मुयइ गुणजालं ।
सो सीसो उ अजोग्गो भणिओ परिपूणगसमानो ।।" आह-सर्वज्ञमतेऽपि दोपा: सम्भवन्तीत्यश्रद्धेयमेतत्, सत्यम्, उक्तमत्र भाष्यकृता
___ "सव्वण्णुप्पामण्णा दोसा हुन संति जिनमए केवि।
जं अनुवउत्तवकहणं अपत्तमासज्ज व हवंति ।।" सम्प्रति हंसदृष्टान्तभावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, स
चैकान्तेन योग्यः! ___ ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तज्जिह्याया अम्लत्वेन क्षीरस्य कूर्चिकीभूय पृथग्मभवनात्, उक्तंच
"अंबनणेण जीहाए कूचिया होइ खीरमुदयंमि। हंसो मोत्तूण जलं आवियइ पयं तह सुसीसो।"
मोत्तृण दढं दोसे गुरुणोऽनुवउत्तभासियाइंपि।
गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स।" इदानीं महिपदृष्टान्तभावना-यथा महिपोनिपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं . मृहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुपीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत्, शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकथादिभिर्वाऽऽत्मनः परेषां चानुयोगश्रवणविधातमाधत्ते स महिपसमानः, सचैकान्तेनायोग्यः,
"सयमवि न पियइ महिसो न य जूहं पिबति लोलियं उदयं।
विग्गहविकहाहि तहा अथक्कपुच्छाहि य कुसीसो" . मेपोदाहरणभावना-यथा मेषो वदनस्य तनुत्वात् स्वयंचनिभृतात्मा गोष्पदमात्रस्थितिमपि जलमकलुषीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः॥
मसकदृष्टान्तभावना-य: शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः ।।
जलौकदृष्टान्तभावना-यथा जलौका: शरीरमदुन्वती रुधिरमाकर्षति, तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जलौकासमानः, उक्तं च-.
___ "जलुगा व अमितो पियइ सुसीसोऽवि सुयनाणं " बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति, तथादुष्टस्वभावत्वाद्, एवं शिप्योऽपि यो विनयकरणादिहीनतया न साक्षाद् गुरुसमोपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्य: केभ्यश्चित्, स बिडालीसमानः, स चायोग्यः ।।
तथा जाहक:-तिर्यग्विशेपः, तत्र दृष्टान्तभावना-यथा जाहक: स्तोकं २ क्षीरं पीत्वा पाश्र्वाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org