________________
नन्दी-चूलिकासूत्रं प्रशस्त(द्रव्य)भा विता अपि द्विधा वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधा- नवीना जीर्णाश्च, तत्र प्रथमतो ये बालभाव एवाद्यापि वर्त्तन्ते अज्ञानिनः सम्प्रत्येव च बोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधा-भाविता अभाविताश्च, तत्राभाविता ये केनापि दर्शनेन न वासिताः, भाविता द्विधा-कृप्रावचनिकपार्श्वस्थादिभिः संविग्नेश्च, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाम्या अवाम्याश्च, संविग्नैरपि भाविता द्विधावाम्या अवाम्याश्च, तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिभाविता अपि वाम्याः ये च संविग्नभाविता आवम्या: ते सर्वेऽपि योग्याः, शेषा अयोग्याः । ___ अथवा अन्यथा कुटदृष्टान्तभावना-इह चत्वार: कुटाः तद्यथा-छिद्रकुट: कण्ठहीनकुटः खण्डकुट: सम्पूर्णकुटश्च, तत्र यस्याधो बुध्ने छिद्रं स छिद्रकुटः, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुट:, यस्य पुनरेकपार्वे खण्डेन हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं शिष्या अपि चत्वारो वेदितव्या, तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि छिद्रकुटो यावत्तदवस्थ एव गाढमवनितलसलग्नोऽवतिष्ठते तावत् न किमपि जलं ततः स्ववति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धाने सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेद् व्याख्यानमण्डल्याः तहि स्वयं पूर्वापरानुसन्धानाशक्तिविकलत्वात् न किमप्यनुस्मरतीति, यस्तु व्याख्यानमण्डल्यामप्यपविष्टोऽर्द्धमात्रं त्रिभागंचतर्भागहीनं वा सत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिदूनं सूत्रार्थमवधारयति पश्चादपि तथैव स्मरति स कण्ठहीनकुटसमानः, यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति पश्चादपि तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥
सम्प्रति चालनीदृष्टान्तभावाना-चालनी लोकप्रसिद्धा यथा कणिक्कादि चाल्यते, यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति न पुनः कियन्तमति कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे विशति तदैव विस्मृतिपथमुपैति स चालनीसमानः ।। तथा मुद्रशेलच्छिद्रकुटचालनीसमानशिष्यभेदप्रदर्शनार्थमुक्तं भाष्यकृता
__ "सेलेयछिड्डचालनि मिहोकहा सोउमुट्ठियाणं तु। छिद्दाऽऽह तत्थ बिट्ठो सुमरिंसु समरामि नेयाणिं ॥१॥
एगेन विसइ बीएण नीइ कण्णेण चालनी आह।
धन्नोऽत्थ आह सेलो जं पविसइ नीइ वा तुझं ॥२॥" तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि बिन्दुमात्रमपि जलं न स्ववति, उक्तं च
"तावसखउरकढिणयं चालनिपडिवक्ख न सवइ दवंपि।
ततः तत्समानो योग्य इति।।" सम्प्रति परिपूर्णकदृष्टान्तो भाव्यते-परिपूर्णको नामघृतक्षीरगालनकं सुगृहाभिधचटिकाकुलायो वा, तेन ह्याभीर्यो घृतं गालयन्ति, ततो यथास परिपूर्णक: कचवरं धारयति घृतमुज्झति, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International