________________
मूलं - ३५
५३
कालिक श्रुतं पूर्वगतं च किञ्चिदनुसन्धाय घटितं यतश्चैतन्मथुरापुरि सङ्घटितमत इयं वाचना माथुरीत्यभिधीयते सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्याणामभिमत्ता तैरेव चार्थतः शिष्यबुद्धि प्रापितेति तदनुयोगः तेषामाचार्याणां सम्बन्धीति व्यपदिश्यते ।
• अपरे पुनरेवमाहुः- न किमपि श्रुतं दुर्भिक्षकालकवलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म, ततस्तैर्दुर्भिक्षापगमे मथुरापुरी पुनरनुयोगः प्रवर्त्तित इति वाचना माथुरीति व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति ॥
मू. ( ३६ )
तत्तो हिमवंतमहंत विक्कसे धिइपरक्कममनंते । सज्झायमनंतधरे हिमवंते वंदिमो सिरसा ॥
-
वृ. ' .' ततः ' स्कन्दिलाचार्यानन्तरं तच्छियान् हिमवतो-हिमवन्नामकान् 'हिमवन्महाविक्रमान्' हिमवत इव महान् विक्रमो-विहारक्रमेण प्रभूतक्षेत्र व्यासरूपो येषां ते तथा तान्, ,'धिइपरक्कममणते'' इति अनन्तधृतिपराक्रमान्, प्राकृतशैल्याऽनन्तशब्दस्यान्यथोपन्यासः सूत्रे, अनन्तः-- अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान्, तथा 'सज्झायमणंतधरे 'ति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं तात्त्विको निर्देश: 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य स्वाध्यायं धरन्तीति धराः अनन्तस्वाध्यायस्य धरा अनन्तस्वाध्याय धरास्तान् ॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाहपू. ( ३७ ) कालियसुयअनुओगस्स धारए धारए य पुव्वाणं ।
हिमवंतखमासमणे वंदे नागज्जुनायरिए ।।
वृ. कालिक श्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणाम्' उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः तच्छिष्यान् वन्दे नागार्जुनाचार्यान्, कथम्भूतानित्याहमिउमद्दवसंपन्ने आनुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुनवायए वंदे ।
मू. (३८)
वृ. 'मृदुमार्दवसम्पान्नात्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यत् मार्दवं तेन सम्पन्नान्, मार्द्दवं चोपलक्षणं तेन क्षान्तिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम्, तथा 'आनुपूर्व्वा' वय: पर्यायपरिपाट्य वाचकत्वं प्राप्तान्, इदं च विशेषणैमंदयुगीनसूरीणां सामाचारीप्रदर्शनपरमवसंयम्, तथाहि अपवादपदमपृष्टमवलम्ब्य नैवेदंयुगीनसाधूनामपि युज्यते कालोचित्तानुपूर्वी मपहाय गणधरपदाद्यारोपणम्, मा प्रापत् महापुरुषगौतमादीनामाशातनाप्रसङ्गः, तेषां चाशातना स्वल्पीयस्यपि प्रकृष्टदुस्तरंससारोपनिपातकारणम्, यदुक्तम्
"वूढो गणहरसद्दो गोयममाईहिं धीरपुरिसेहिं । जो तं वइ अपत्ते जाणतो सो महापावो ।"
तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समावर्जितेनापि स्वशिष्ये गुणवति कालोचितवयःपर्यायानुपूर्वीसम्पन्ने गणधरपदाध्यारोपः कर्त्तव्यो न यत्र कुत्रचिदित स्थितम्, तथा‘ओघश्रुतसमाचारकान्’ ओघ श्रुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति ये ते ओघ श्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥
मू. ( ३९ )
Jain Education International
वरकनगतवियचंपगविमलउलवरकमलगब्भसरिसन्ने ।
For Private & Personal Use Only
www.jainelibrary.org