________________
५२
नन्दी - चूलिकासूत्रं
इव पर्वप्रवाह इव यशोवंशः, अनेनापयशः प्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि - अपयशः प्रधानानामपारसंसारसरित्पतिश्रोत: पतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृद्धेति केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह-आर्यनागहस्तिनामार्यनन्दिलक्षपण शिष्याणां कथम्भूतानामित्याह- 'व्याकरणकरणभङ्गीकर्म्मप्रकृतिप्रधानानां तत्र व्याकरणसंस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्नव्याकरणं वा करणं-पिण्डविशुद्धादि उक्तं " पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो ! पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ " श्रुतं कर्म्मप्रकृतिः - प्रतीता, एतषु प्ररूपणामधिकृत्य प्रधानानाम् ॥ जच्चजण धाउसमप्पहाण मुद्दियकुवलयनिहाणं ।
भङ्गी - भङ्गबहुलं मू. ( ३३ )
वड्डूउ वायगवंसो रेवइनक्खत्तनामाणं ।।
वृ. आर्यनागहस्तिनामपि शिष्याणां रेवतीनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथम्भूतानामित्याह-'जात्याञ्जनधातुसमप्रभाणां' जात्याश्चासावञ्जनधातुश्च तेन समा - सदृशा प्रभा देहकान्तिर्येषां ते तथा तेषां मा भूदत्यन्तकालिम्नि सम्प्रत्यय इति विशेषणान्तरमाह- 'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनराहुः कुवलयमिति मणिविशेषः तत्राप्यविरोधः ॥
पू. ( ३४ )
अयलपुरा निक्खते कालियसुयआनुओगिए धीरे । बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते ।
वृ. रेवती नक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपकसिंहान्' ब्रह्मद्वीपकशाखोपलक्षितान् सिंहनामकानाचायान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकरुतानुयोगिकान्' कालिक श्रुतानुयोगे - व्याख्याने नियुक्ताः कालिक श्रुतानुयोगिकास्तान् अथवा कालिक श्रुतानुयोग एषां विद्यते इति कालिक श्रुतानुयोगिनः ततः स्वार्थिककप्रत्ययविधानात् कालिक श्रुतानुयोगिकाः तान्, धिया राजन्ते इति धीराः तान्, तथा तत्कालपेक्षया उत्तमं प्रधानं वाचकपदं प्राप्तान् - पू. (३५)
जेसि इमो अनुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ।
वृ. येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्ध भरतवैताढ्यदर्वाक् 'प्रचरति' व्याप्रियते तान् स्कन्दिलाचार्यान् सिंहवाचकसुरिशिष्यान् बहुषु नगरेषु निर्गतं प्रसृतं यशो येषां ते बहुनगरनिर्गतयशसस्तान् वन्दे । अथायमनुयोगोऽर्द्धभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्नामाचार्याणां सम्बन्धी ?, उच्यते, इह स्कन्दिलाचार्यप्रतिपत्तौ दुष्षमसुषमाप्रतिपन्थिन्याः तद्रतसकलुशभभावग्रसनैकसमारम्भायाः दुष्षमाया: साहायकमाधातुं परमसुदिव द्वादशवार्षिकं दुर्भिक्षमुदपादि, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासम्भवादवसीदतां साधूनामपूर्वार्थग्रहणपूर्वार्थस्मरणश्रुतपरावर्त्तनानि मूलत एवापजग्मुः, श्रुतमपि चातिशायि प्रभूतमनेशत्, अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टम्, तत्परावर्त्तनादेरभावात्, ततो द्वादशवर्षानन्तरमुत्पन्ने सुभिक्षे मथुरापुरि स्कन्दिलाचार्यप्रमुख श्रमणेसङ्घनैकत्र मिलित्वा यो यत्स्मरति स तत्कथयतीत्येवं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International