SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मूलं-२६ जोतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथा 'धृड् धारणे' ध्रियते धारयतोति धर: 'लिहादिभ्यः' इत्यच् प्रत्ययः आर्यजीतस्य धर आर्यजीतधरः तम्, अन्ये तु व्याचक्षते-शाण्डिलस्यापि शिष्य आर्यगोत्रो जीतधरनामा सरिरासीत् तं वन्दे इति॥ मू. (२७) तिसमुदखायकित्ति दीवसमुद्देसु गहियपेयालं। वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीर।। वृ.शाण्डिलशिष्यमार्यसमुद्नामानं वन्दे, कथंभूतमित्याह-'त्रिसमुद्रख्यातकीत्ति' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात्, पूर्वापरदक्षिणास्त्रय: समुद्रास्त्रिसमुद्रम्, उत्तरतस्तु हिमवान् वैताढ्य वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्वासौ त्रिसमुद्रख्यातकीत्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम्, अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम्।। मू. (२८) भणगं करगं झरगं पभावगं नाणदसणगुणाणं। वंदामि अज्जमगुंसुयसागरपारगं धीरं।। वृ.आर्यसमुद्रस्यापि शिष्यमार्यमंगुंवन्दे, किंभूतमित्याह-'भणकं कालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति भण: भण एव भणक: 'कश्चेति प्राकृतलक्षणसूत्रात् स्वार्थे कः प्रत्ययः तं, तथा कारकं कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिरूपं क्रियाकलापं करोति करायतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्यातारं, इह यद्यपि सामान्यतः कारकमिति वचनाध्यातारमिति विशेषणं गतार्थं तथापी तस्य विशेषतोऽभिधानं ध्यानस्य प्रधानपरलोकांगताख्यापनार्थं, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणानाम्, 'एकग्रहणे तज्जातीयग्रहणमिति' न्यायाच्चरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुत सागरपारगं । मू.( २९) वंदामि अज्ज धम्मं तत्तो वंदे च भद्दगुत्तं च। तत्तो य अज्जवइरं तव नियम गुणेहिं वइरसमं॥ ॥प्र.॥ मू.(३०) वंदामि अज्जरक्खियखमणे रक्खिचरित सबसेः।। रयणकरंडगभूओ अनुओगो रक्खिवओ जेहि।। प्र. मू.(३१) नाणमिदंसणमि अतवविणए णिच्चकालमुज्जतं। . अज्जं नंदिलखमणं सिरसावंदै पसन्नमणं॥ वृ.आर्यमङ्गोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्त:करणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाच्चारित्रेच, तथा तपसि-यथायोगमनशनादिरूपे विनये-ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं॥ मू.(३२) वड्डउवायगवंसो जसवंसो अज्जनागहत्थीणं। वागरणकरणभंगियकम्मपयडीपहाणाणं॥ वृ. पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंश:-क्रमभाविपुरुषपर्वप्रवाह: स'वर्द्धता' वृद्धिमुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत्, वर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाचकवंश इत्याह-'यशोवंशो' मूर्तो यशसो वंश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy