SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ नन्दी-चूलिकासूत्रं भविअजनहिययदइए दयागुणविसारए धीरे॥ वृ.वरं- प्रधानं सार्द्धषोडशवणिकारूपंतापितं यत्कनकं-यत्स्वर्णं यच्च वरचम्पर्क-सुवर्णचम्पकपुष्पं तथा यच्च विमुकुलं-विकसितं वरं-प्रधानं कमलम्-अम्भोजं तस्य यो गर्भः तत्सदृशवर्णान्-तत्समदेहकान्तीन्, तथा 'दयागुणविशारदान्' सकलजगज्जन्तुदयाविधिविधापनयोरतीव कुशलान्, तथा धिया राजन्ते-शोभन्ते इति धीरास्तान्। . मू.(४०) अङ्कभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे। अनुओगियवरवसमे नाइलकुंवसनंदिकरे।। वृ.तथा अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्धभरतमध्ये युगप्रधानान्तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान्' बहुविध आचारादिभेदात् स्वाध्यायः ततः सुविज्ञातो बहुविधः स्वाध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान्-उत्तमान्, तथा अनुयोजिताः-प्रवर्तिता यथोचित्ते वैयावृत्त्यादौ वरवृषभाः-सुसाधवो यैस्ते तथोक्तास्तान्. तथा नागेन्द्रकुलवंशस्य नन्दिकरानं, प्रमोदकरानित्यर्थः। मू.(४१) भूयहिअप्पगन्भे वंदेऽहं भूयदिन्नमायरिए। भवभयवुच्छेयकरे सीसे नागज्जुनरिसीण। वृ. तथा 'भूतहितप्रगल्भान्' अनेकधासकलत्त्वहितोपदेशदानसमर्थान् ‘भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् 'नागार्जनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान्, भूतदिननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदित्रशब्दात् मकारोऽलाक्षणिकः। मू.(४२) सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थारयं वंदे। सम्भावुभावणयातत्थं लोहिच्चणामानं॥ वृ. सुष्टु-यथांवस्थिततया मुणितं-ज्ञातं, 'ज्ञो जाणमुणाविति' प्राकृतलक्षणाज्जानातेर्मुण आदेशः, नित्यानित्यं सामर्थ्याद्वस्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं, यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूगन्थगौरवमितिकृत्वा, एतेन न्यायवेदिता तस्यावेदिता, तथा सुष्टु-अतिशयेन ज्ञातं यत्सूत्रमर्थश्च तस्य धारकम्, अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो-यथावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यम्-अविसंवादिनं सद्भावोद्भावनातथ्यम्, एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम्, इत्थम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं वन्दे।। मू.(४३) अत्थमहत्थक्खाणि सुसमणवक्खाणकहनिब्वाणि। पयईई महरवाणि पयओ पणमामि दूसगणिं॥ वृ.तत्र भाषाभिधेया अर्था विभाषावार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानिः तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधावतीव पटीयस्त्वमावेदयति, तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयतानामपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निर्वृति:-समाधिर्यस्य सतथा तं, तथा प्रकृत्या-स्वभावेन मधुरवाचं-मधुरगिरंन शिष्यगतमनाक्-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy