________________
४७
मूलं-१० सम्प्रति सङ्घस्यैवाक्षोभ्यतया समुद्ररूपकण स्तवं चिकीर्षुराहम.(११) भदं धिइवेलापरिगयस्स सज्झायजोगमगरस्स।
अक्खोहस्स भगवओ संघसमुदस्सरंदस्स।। वृ. (संघ एव समुद्रः) सङ्घसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः, किंविशिष्टस्य सत इत्याह-'धृतिवेलापरिंगतस्य' धृतिः-मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेष: सैव वेला-जलवृद्धिलक्षणा तया परिगतस्य, तथा स्याध्याययोग एव कर्मविदारणक्षमशक्तिसमन्विततया मकरइव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य' परीषहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य भगवतः' समग्रेश्वर्यरूपयशोधर्मप्रयत्न श्रीसम्भारसमन्वितस्य 'रुन्दस्य' विस्तीर्णस्य। भूयोऽपि सङ्घस्यैव सदास्थायितया मेरुरूपकेण स्तवमाह-गाथाषट्केन सम्बन्धःमू.(१२) सम्मदसणवरवइरदढरूढगाढावगाढपेढस्स।
धम्मवररयणमंडिअचामीयरमेहलागस्स। वृ. सम्यक्-अविपरीतं दर्शन-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वाद्वरवज्रमिव सम्यग्दर्शनवरवजं तदेव दृढ़-निष्पकम्पं रूढं-चिरप्ररूढं गाढंनिबिडमवगाढं-निमग्नं पीठं-प्रथम भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं दृढं शङ्कादिशुषिररहिततया परतीर्थकवासनाजलेनान्तः प्रवेशाभावतश्चालयितुमशक्यम,रूढंप्रतिसमयं विशद्धयमानतया प्रशस्ताध्यवसायेष चिरकालं वर्तमान्, गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं, तं वन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे षष्ठी, यदाह पाणिनिः स्वप्राकृतलक्षणे'द्वितीयार्थे षष्ठी', अथवा सम्बन्धविवक्षया षष्ठी, यथा माषाणामनीयादित्यत्र, यद्वा इत्थंभूतस्य सङ्घमन्दरगिरेयत्माहात्म्यं तद्वन्देइति माहात्म्यशब्दाध्याहारापेक्षयाषष्ठी, तथा दुर्गतौ प्रपतन्मात्मानं धार यतीति धर्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमण्डितचामीकरमेखलाक: 'शेषाद्वे'तिकप्रत्यय: तस्य, इह धम्मो द्विधा-मूलगुणरूप उत्तरगुणरूपश्च, तत्रोत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते। मू.(१३) नियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स।
नंदनवनमनहरसुरभिसीलगंधुद्धमायस्स।। वृ.इहोच्छ्रितशब्दस्यव्यवहितः प्रयोगः, ततश्चायमर्थ:-नियमाएव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि-उज्ज्वलानि ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरौ कूटानामुच्छ्रितत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागाादुज्ज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्त उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात्, तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तत्रन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनोहरतीति मनोहरं, लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं च यस्य सुरभिस्वभावो यो गन्धस्तेन 'उद्धमायः' आपूर्णः, उद्धुमायशब्द आपूर्णपर्यायः, यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org